Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ २४ स्याद्वादर ये अत्र ब्रूमः प्रमाणं भवति भववचः किं सदप्यप्रमाणं । येन प्रामाण्यमुद्रा परपरिचयतः संकरोत्कीर्णकुक्षिः ॥ एकांतः कांतः एवेत्यपि यदि मनुषे किं तवांबा तदेयं । ब्राह्मण्यं भोस्तपस्विन् प्रथयति नियतं शूद्रदारानुरूपम् ||२|| अथ - विशेषणसंगतैवकारस्य विशेष्यनिष्ठव्याप्यवृत्त्यत्यंताभावाप्रतियोगित्वं विशेष्यनिष्ठप्रतियोगितानवच्छेदकत्वं वार्थः, तेन 'वृक्षः संयोग्येवे'त्यत्र नाऽप्रसिद्धिः । अयोगव्यवच्छेदस्तु नार्थः, 'प्रमेयमभिधेयमेवे’त्यत्रैवाभावात् । तत्र च खंडशः शक्तिलक्षणा वेत्यन्यदेतत् । तथा च 'घटः सन्नेवेत्यत्र स्ववृत्त्यत्यंताभावाऽप्रतियोगिसत्त्ववान् स्ववृत्तिभेदप्रतियोगितानवच्छेदकसत्त्वान् वा घट इति बोधो न तु सर्वसत्ववानिति, तथा च क सांकर्य, एकान्तवादे परौदासीन्येन सत्त्वमात्रबोधनात् । नन्वेवं 'द्रव्यं सदेवे' तिधीः कथं ? सत्तानतिरिक्ताया गुणत्वविशिष्टसत्ताया द्रव्यनिष्ठभेदप्रतियोगितावच्छेदकत्वादिति चेत् ! न, विशेष्यनिष्ठ मेद प्रतियोगितावच्छेदकत्वपर्याप्त्यनधिकरणत्वस्य विवक्षितस्य तत्र सत्त्वादिति चेत् मैवं, 'घटः सन्नेवे 'त्यत्र 'घटः सन्न त्वसन्नित्येव हि स्वारसिको बोधः तथा च प्रत्यक्षतः प्रतीयमानमपि पररूपेणाऽसत्त्वं घटे प्रतिक्षिपतः फलतः पररूपेणापि सत्त्वाभ्युपगमापातात्सांकर्य शंकाशं कुसंकुलचेतष्कता दुर्निवारा चिरमायुष्मतः । अथैवं 'प्रमेयं वाच्यमेवे’त्यत्र का गतिरिति चेत् ? किं तत्राऽवाच्यता न प्रतिषिध्यते ? अप्रसिद्धा सा कथं प्रतिषेध्यतामिति चेत् ? तर्हि तत्र योग्यताभावादेवकारोऽबोधक एवास्तु । प्रमेयवृत्तिमेदप्रतियोगितानवच्छेदकत्वबोधः स्वारसिकश्चेत् ? तदास्तु तत्र तस्य लक्षणैव, शक्तिस्तु लाघवादयोगे व्यवच्छेदे च खंडश एवेति युक्तमुत्पश्यामः । अस्तित्वं यत्पटादौ न तदिह कलशे, यद्घटे तत्तु बाढम् । रूपं तस्यैव कुंभे न भवति हि यथेत्यत्र नो नो विवादः ॥ भावाभावैकभावाभ्युपगमविमुचो नो वचो युज्यतेऽदो । यस्मादस्माकमेतद्वयमिह मिलितं सप्तधा धर्मशालि ॥१॥ ननु तथापि नास्तीत्यत्राऽस्तित्वाभावस्येव नास्तीति पदवाच्यत्वादिधर्मस्यापि घटादौ संभवादुभंगानां सप्तसीमातिक्रम इति चेत् ? न, नास्तीत्यनेन प्रतिषेधकल्पनावतोर्ण प्रश्नोन्मग्नस्यास्तित्वाभावस्यैवाकांक्षितत्वात् । अत एव वक्तव्यत्वसप्तभंग्यां द्वितीयचतुर्थभंगयोर्नामेदः, प्रतिषेधकल्पनासाचिव्येन द्वितीयभंगेन वक्तव्यत्वाभावस्यैव बोधनात् । अत एव च प्रकृतसप्तभंग्यां वक्तव्यत्वमपि नाधिकं, सप्तकल्पनावतोर्ण प्रश्नानुन्मज्ञ्जनादिति ध्येयम् । [सप्तभंगीद्वैविध्यम् ] सा चेयं सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र " प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिर भेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः " ७ १ - के पुनः कालादयः ? ' कालः, "मात्मरूपं, अर्थ:, *सम्बन्धः, "उपकारः, "गुणिदेशः, " संसर्गः, 'शब्दः इत्यष्टाविति रत्नाकररावतारिकायां प्रपञ्चितमधिकम् ।

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182