________________
२४
स्याद्वादर ये
अत्र ब्रूमः प्रमाणं भवति भववचः किं सदप्यप्रमाणं । येन प्रामाण्यमुद्रा परपरिचयतः संकरोत्कीर्णकुक्षिः ॥ एकांतः कांतः एवेत्यपि यदि मनुषे किं तवांबा तदेयं । ब्राह्मण्यं भोस्तपस्विन् प्रथयति नियतं शूद्रदारानुरूपम् ||२||
अथ - विशेषणसंगतैवकारस्य विशेष्यनिष्ठव्याप्यवृत्त्यत्यंताभावाप्रतियोगित्वं विशेष्यनिष्ठप्रतियोगितानवच्छेदकत्वं वार्थः, तेन 'वृक्षः संयोग्येवे'त्यत्र नाऽप्रसिद्धिः । अयोगव्यवच्छेदस्तु नार्थः, 'प्रमेयमभिधेयमेवे’त्यत्रैवाभावात् । तत्र च खंडशः शक्तिलक्षणा वेत्यन्यदेतत् । तथा च 'घटः सन्नेवेत्यत्र स्ववृत्त्यत्यंताभावाऽप्रतियोगिसत्त्ववान् स्ववृत्तिभेदप्रतियोगितानवच्छेदकसत्त्वान् वा घट इति बोधो न तु सर्वसत्ववानिति, तथा च क सांकर्य, एकान्तवादे परौदासीन्येन सत्त्वमात्रबोधनात् । नन्वेवं 'द्रव्यं सदेवे' तिधीः कथं ? सत्तानतिरिक्ताया गुणत्वविशिष्टसत्ताया द्रव्यनिष्ठभेदप्रतियोगितावच्छेदकत्वादिति चेत् ! न, विशेष्यनिष्ठ मेद प्रतियोगितावच्छेदकत्वपर्याप्त्यनधिकरणत्वस्य विवक्षितस्य तत्र सत्त्वादिति चेत् मैवं, 'घटः सन्नेवे 'त्यत्र 'घटः सन्न त्वसन्नित्येव हि स्वारसिको बोधः तथा च प्रत्यक्षतः प्रतीयमानमपि पररूपेणाऽसत्त्वं घटे प्रतिक्षिपतः फलतः पररूपेणापि सत्त्वाभ्युपगमापातात्सांकर्य शंकाशं कुसंकुलचेतष्कता दुर्निवारा चिरमायुष्मतः । अथैवं 'प्रमेयं वाच्यमेवे’त्यत्र का गतिरिति चेत् ? किं तत्राऽवाच्यता न प्रतिषिध्यते ? अप्रसिद्धा सा कथं प्रतिषेध्यतामिति चेत् ? तर्हि तत्र योग्यताभावादेवकारोऽबोधक एवास्तु । प्रमेयवृत्तिमेदप्रतियोगितानवच्छेदकत्वबोधः स्वारसिकश्चेत् ? तदास्तु तत्र तस्य लक्षणैव, शक्तिस्तु लाघवादयोगे व्यवच्छेदे च खंडश एवेति युक्तमुत्पश्यामः ।
अस्तित्वं यत्पटादौ न तदिह कलशे, यद्घटे तत्तु बाढम् । रूपं तस्यैव कुंभे न भवति हि यथेत्यत्र नो नो विवादः ॥ भावाभावैकभावाभ्युपगमविमुचो नो वचो युज्यतेऽदो । यस्मादस्माकमेतद्वयमिह मिलितं सप्तधा धर्मशालि ॥१॥
ननु तथापि नास्तीत्यत्राऽस्तित्वाभावस्येव नास्तीति पदवाच्यत्वादिधर्मस्यापि घटादौ संभवादुभंगानां सप्तसीमातिक्रम इति चेत् ? न, नास्तीत्यनेन प्रतिषेधकल्पनावतोर्ण प्रश्नोन्मग्नस्यास्तित्वाभावस्यैवाकांक्षितत्वात् । अत एव वक्तव्यत्वसप्तभंग्यां द्वितीयचतुर्थभंगयोर्नामेदः, प्रतिषेधकल्पनासाचिव्येन द्वितीयभंगेन वक्तव्यत्वाभावस्यैव बोधनात् । अत एव च प्रकृतसप्तभंग्यां वक्तव्यत्वमपि नाधिकं, सप्तकल्पनावतोर्ण प्रश्नानुन्मज्ञ्जनादिति ध्येयम् ।
[सप्तभंगीद्वैविध्यम् ]
सा चेयं सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र " प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिर भेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः "
७
१ - के पुनः कालादयः ? ' कालः, "मात्मरूपं, अर्थ:, *सम्बन्धः, "उपकारः, "गुणिदेशः, " संसर्गः, 'शब्दः इत्यष्टाविति रत्नाकररावतारिकायां प्रपञ्चितमधिकम् ।