Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ लो०७] अभिलाप्याऽन मिलाप्यत्वाऽविरोधनिरूपणम् [ २१ विनिगमनाविरहः कुत्र लीनः ? रूप एव विशेषः कल्प्यते पृथिवीपरमाणुरूपाणां पाकादिनैव विशेषः, तत्र विशेषाकल्पनलाघवादित्यप्याहुः । किच- तादृशविशेषाणामपि भेदः कुतः ? स्वत एवेति चेत् १ तर्हि तदाश्रयाणामपि स्वत एवायमास्थीयतामन्ततस्तत्तद्व्यक्तित्वादीनामपि भेदकत्वसम्भवात् प्रतिद्रव्यमनंता गुरुलघुपर्यायाणां विलक्षणानां सिद्धांतत्सिद्धत्वाच्च । अभिलाप्यत्वाऽनभिलाप्यत्वे अपि न विरुद्धे । दृष्टं हि घटस्य यथा घटपदापेक्षयाऽभिलाप्यत्वं तथा पटपदापेक्षयाऽनभिलाप्यत्वमपीति । नन्वभिलाप्यभावापेक्षयाऽनंतगुणिता अनभिलाप्या भावा भवद्भिरुपेयन्ते - यदुक्तं बृहत्कल्पवृत्तौ "`पन्नवणिज्ज"त्ति । तेष्वेवेदमनुपपन्नमिति चेत् ? न, तम्याऽनभिलाप्यपदेनैवाऽभिलाप्यत्वात् । ननु किमिदमभिलाप्यत्वं १ न तावत्पदजन्यबोधविषयत्वं तदविषयेऽपि क्वचिद् घटादावभावात् । नाऽपि तद्बोध्यतावच्छेदकरूपवत्त्वं, घटस्याऽपि पटपदाभिलाप्यत्वापत्तेः, एकस्यापि पदस्य सर्वार्थवाचकत्वात् । नापि गृहीततत्तदर्थनिरूपित संकेतक पदबोध्यतावच्छेदकरूपवत्त्वं तत्, पटपदस्यापि घटे संकेत ग्रहसंभवात्तद्दोषाऽनतिवृत्तेः । अत एव न तत्तदर्श स्वरूपपरिणामपरिणतपदबोध्यतावच्छेदकरूपवत्त्वमिति चेत् ? मैवं, गृहीत तत्तदर्थ-निरूपित नियंत्रित संकेतक पदबोध्यतावच्छेदकरूपवत्त्वस्यैव तत्त्वात् । हि घटपदस्यैव कोशादिना संकेतो नियम्यते न तु पटपदस्येति नातिप्रसंग: । अत एव श्रुतज्ञानाविषयीभूतानामर्थानां प्रातिस्विकरूपेण संकेतग्रहासंभवात् अनभिलाप्यत्वम् । , अथ घटादिपदस्यैव तत्तदर्थ पुरस्कारेणाऽपि संकेतग्रहः कुतो न भवति इति चेत् १ तादृशश्रुतज्ञानावरणकर्मक्षयोपशमलक्षणयोग्यताऽभावादिति गृहाण । यत्र च यत्पदस्य नियंत्रितसंकेतो गृह्यते तत्पदप्रयोक्ता पुरुषः तदर्थप्रतिपादकत्वेनैव व्यवहियते । अत एव भगवतां तत्तत्पदप्रयोक्तृणामपि श्रुतज्ञानाविषयी भूताऽर्थाऽप्रतिपादकत्वम् । इदमेवाऽभिप्रेत्याभ्यधायि " " केवलविन्नेयत्थे" त्ति । दिगंबरास्तु-परकीय घटादिज्ञानस्य स्वेष्टसाधनताज्ञानात् तत्र प्रयोक्तुरिच्छा, तत इष्टघटादिज्ञानसाधनतया घटादिपदे, तत्साधनतया च कंठताल्वाद्यभिघातादाविच्छा, ततः प्रवृत्त्यादिक्रमेण घटादिपदप्रयोग इत्येतादृशपरिपाट्याः केवलिनामभावात् न ते शब्दप्रयोक्तारः किन्तु विसात एव मूर्ध्ना निरित्वरा ध्वनयस्तत्तच्छब्दत्वेन परिणम्यार्थविशेषं बोधयन्तीत्याहुः । - "पन्न वणिज्जा भावा अनंतभागो उ अणभिल पाण" | "प्रज्ञाग्नीयाः मावा अनंतभागस्त्वनभि लाप्यानाम् । २ - केवल विन्नेत्थे सुअनाणेणं जिणो पयासे । सुअनाणकेवली वि हु तेणेवत्थे पयासेइ ॥ विज्ञेयार्थान् श्रुतज्ञानेन जिनः प्रकाशयति । श्रतज्ञानकेवल्यपि खलु तेनैवार्थान् प्रकाशयति ॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182