________________
लो०७]
अभिलाप्याऽन मिलाप्यत्वाऽविरोधनिरूपणम्
[ २१
विनिगमनाविरहः कुत्र लीनः ? रूप एव विशेषः कल्प्यते पृथिवीपरमाणुरूपाणां पाकादिनैव
विशेषः, तत्र विशेषाकल्पनलाघवादित्यप्याहुः ।
किच- तादृशविशेषाणामपि भेदः कुतः ? स्वत एवेति चेत् १ तर्हि तदाश्रयाणामपि स्वत एवायमास्थीयतामन्ततस्तत्तद्व्यक्तित्वादीनामपि भेदकत्वसम्भवात् प्रतिद्रव्यमनंता गुरुलघुपर्यायाणां विलक्षणानां सिद्धांतत्सिद्धत्वाच्च ।
अभिलाप्यत्वाऽनभिलाप्यत्वे अपि न विरुद्धे । दृष्टं हि घटस्य यथा घटपदापेक्षयाऽभिलाप्यत्वं तथा पटपदापेक्षयाऽनभिलाप्यत्वमपीति । नन्वभिलाप्यभावापेक्षयाऽनंतगुणिता अनभिलाप्या भावा भवद्भिरुपेयन्ते - यदुक्तं बृहत्कल्पवृत्तौ "`पन्नवणिज्ज"त्ति । तेष्वेवेदमनुपपन्नमिति चेत् ? न, तम्याऽनभिलाप्यपदेनैवाऽभिलाप्यत्वात् । ननु किमिदमभिलाप्यत्वं १ न तावत्पदजन्यबोधविषयत्वं तदविषयेऽपि क्वचिद् घटादावभावात् । नाऽपि तद्बोध्यतावच्छेदकरूपवत्त्वं, घटस्याऽपि पटपदाभिलाप्यत्वापत्तेः, एकस्यापि पदस्य सर्वार्थवाचकत्वात् । नापि गृहीततत्तदर्थनिरूपित संकेतक पदबोध्यतावच्छेदकरूपवत्त्वं तत्, पटपदस्यापि घटे संकेत ग्रहसंभवात्तद्दोषाऽनतिवृत्तेः । अत एव न तत्तदर्श स्वरूपपरिणामपरिणतपदबोध्यतावच्छेदकरूपवत्त्वमिति चेत् ? मैवं, गृहीत तत्तदर्थ-निरूपित नियंत्रित संकेतक पदबोध्यतावच्छेदकरूपवत्त्वस्यैव तत्त्वात् ।
हि घटपदस्यैव कोशादिना संकेतो नियम्यते न तु पटपदस्येति नातिप्रसंग: । अत एव श्रुतज्ञानाविषयीभूतानामर्थानां प्रातिस्विकरूपेण संकेतग्रहासंभवात् अनभिलाप्यत्वम् ।
,
अथ घटादिपदस्यैव तत्तदर्थ पुरस्कारेणाऽपि संकेतग्रहः कुतो न भवति इति चेत् १ तादृशश्रुतज्ञानावरणकर्मक्षयोपशमलक्षणयोग्यताऽभावादिति गृहाण । यत्र च यत्पदस्य नियंत्रितसंकेतो गृह्यते तत्पदप्रयोक्ता पुरुषः तदर्थप्रतिपादकत्वेनैव व्यवहियते । अत एव भगवतां तत्तत्पदप्रयोक्तृणामपि श्रुतज्ञानाविषयी भूताऽर्थाऽप्रतिपादकत्वम् । इदमेवाऽभिप्रेत्याभ्यधायि " " केवलविन्नेयत्थे" त्ति ।
दिगंबरास्तु-परकीय घटादिज्ञानस्य स्वेष्टसाधनताज्ञानात् तत्र प्रयोक्तुरिच्छा, तत इष्टघटादिज्ञानसाधनतया घटादिपदे, तत्साधनतया च कंठताल्वाद्यभिघातादाविच्छा, ततः प्रवृत्त्यादिक्रमेण घटादिपदप्रयोग इत्येतादृशपरिपाट्याः केवलिनामभावात् न ते शब्दप्रयोक्तारः किन्तु विसात एव मूर्ध्ना निरित्वरा ध्वनयस्तत्तच्छब्दत्वेन परिणम्यार्थविशेषं बोधयन्तीत्याहुः ।
- "पन्न वणिज्जा भावा अनंतभागो उ अणभिल पाण" | "प्रज्ञाग्नीयाः मावा अनंतभागस्त्वनभि लाप्यानाम् ।
२ - केवल विन्नेत्थे सुअनाणेणं जिणो पयासे । सुअनाणकेवली वि हु तेणेवत्थे पयासेइ ॥ विज्ञेयार्थान् श्रुतज्ञानेन जिनः प्रकाशयति । श्रतज्ञानकेवल्यपि खलु तेनैवार्थान् प्रकाशयति ॥