Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ श्लो०९] चित्ररूपविचारः मावस्यैव तादृशघटादावभावान्नावच्छेदकतया नीलाद्युत्पत्तिः । तद्रव्यत्वादिना हेतुत्वे तु मूर्तत्वादिना विनिगमनाविरहार हेतुहेतुमद्भावाऽऽपत्तेरिति ध्येयम् । केचित्तु-केवलनीलकपालादिष्ववच्छेदकतया नीलादिवारणायावयवान्तरवृत्तिनीलेतररूपादेः स्वसमवायिसमवेतद्रव्यसमवायसंबंधेन हेतुत्वमभ्युपगच्छन्ति । तन्नेत्यन्ये । कपालातरावच्छेदेन पाकाद्रक्तरूपोत्पत्तिकालेकपालांतरविद्यमानानीलादेव्याप्यवृत्तिनीलाऽनापत्तेः । रक्तोत्पत्यनंतरमेव तत्राऽव्याप्यवृत्तिनीलोत्पत्ति स्वीकुर्वन्त्यपरे । नन्वेवमपि नानारूपवत्कपालाद्यारब्धे घटे तत्कपालावच्छेदेन नीलाद्यापत्तिरिति चेत् ? नीलकपालिकावच्छिमतदवच्छेदेनेष्टत्वमेव तस्याः । यत्तु-अवच्छेदकतया नीलादिकं प्रति समवायेन. नीलादीनां न कारणत्वं किन्तु नीलेतररूपादीनामेव प्रतिबन्धकत्वमिति न तत् नीलाद्यवच्छेदकं किन्तु नीलकपालिकैव तादृशीतितत्तुच्छम-कपालनीलाद्यवच्छेदिकायाः कपालिकाया घटनीलाद्यवच्छेदकत्वाऽयोगात् नीलादीनामपि नीलेतररूपादिप्रतिवन्धकतायां विनिगमकामावाच्च । नीलत्वादिना प्रतिबध्यतायां लाघवं तु न पक्षपाति, प्रतिबन्धकतायामपि तत्संभवात् । 'अवच्छेदकतया नीलादिकं प्रति समवायेन नीलादिकं हेतुः, अवच्छिन्ननीलादिकं प्रति च स्वाश्रयसमवेतत्वसंबंधेन नीलाद्यभावो हेतुः' इत्यप्याहुः। सामानाधिकरण्यसंबंधावच्छिन्नप्रतियोगिताकनीलेतराद्यभावस्यावच्छेदकतया नीलादिकं प्रति कारणता इति कश्चित् । अव्याप्यवृत्तिरूपस्वीकार एव च " 'मुखे पुच्छे च पांडुर" इत्यादाववच्छंदकत्वार्थिका सप्तमी संगच्छते । न चैवं नीलकपालावच्छेदेन संनिकर्षे पीतादिग्रहापत्तिः । अव्याप्यवृत्तिचाक्षुष प्रति चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसंबंधावच्छिन्नाधारतायाः संनिकर्षत्वस्य संयोगादिस्थले क्लुप्तत्वादित्याहुः। __ अत्र केचित्-चित्ररूपवादिना नीलादिकं प्रति नीलेतरादीनां प्रतिबन्धकत्वं, नीलाभावादीनां चित्रं प्रति हेतुता च कल्प्या, अव्याप्यवृत्तिरूपवादिनाऽपि अवच्छेदकतया नीलादिकं प्रति समवायेन नीलेतरादीनां प्रतिबन्धकत्वं, केवलनीलावच्छेदकतया नीलोत्पत्तिवारणाय प्रागुक्तद्रव्यघटितसंबंधेन नीलाभावादीनामवच्छेदकतया नीलादिकं प्रति हेतुत्वं च कल्पनीयमिति यद्यपि तुल्यं, तथापि चित्ररूपवादिमतेऽनंताऽव्याप्यवृत्तिरूपतध्वंसप्रागभावाद्यकल्पनलाघवमित्याहुः। तत्राऽव्याप्यवृत्तिरूपवादिमते विनिगमनाविरहेण नीलेतरादिकं प्रति नीलादीनामपि १-भयमत्र संदर्भ:-एष्टव्या बहवः पुत्राः, यद्य कोऽपि गयां व्रजेत् । यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥१॥ अत्र वृषविशषेणभूतनीलपदार्थस्येयं-परिभाषा-लोहितो यस्तु वर्णन, मुखे पच्छे च पांडुरः। श्वेतः खुर-विषाणाभ्यां स नीलो वष उच्यते ।।२।। अत्र सप्तम्या अवच्छिन्नत्वार्थे संगतिः।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182