________________
सत्त्वासत्त्वाद्यविरोधप्रदर्शनम्
एतदवष्टम्भाय दृष्टान्तमाहुः - "गुडो हि" ति -
गुडो हि कफहेतुः स्यान्नागर पित्तकारणम् । दयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥६॥
निगदसिद्धोऽयम् ||६||
अथ नित्यत्वाऽनित्यत्वभेदा मेदसत्त्वासच्वसामान्यविशेषात्मकत्वाऽभिलाप्य (त्वा)ऽनभिलाप्यत्वादिधर्माणां विरोधशंका मुद्दिधीर्ष वोऽभिदधति " इयमिति" -
द्वयं विरुद्धं नैकत्राऽसत्प्रमाणप्रसिद्धितः विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु
1
| १६
11611
एकत्र=एकाश्रयवृत्तिमत् । द्वयं = नित्यत्वाऽनित्यत्वादिकं न विरुडं न परस्परानधिकरणाधिकरणकम् । तत्र हेतुमाहुः - असदिति -प्रमाण प्रसिद्धेरसत्वात् । नहूयेकत्र सतो - र्वस्तुनोर्विरोध ग्राहकं किंचित्प्रमाणमस्ति । तथाहि, न हि जलानलयोरिव तयोविरोधोऽनुभूयते, रूपरसयोरिवैकवृत्तित्वस्यैवानुभविकत्वात् । न चैकज्ञानानन्तरमज्ञायमानत्वं तथा, नित्यत्वादिज्ञाने सत्यप्यनित्यत्वादेर्ज्ञानात् । स्वभावतो विरोधाभिधानं तु स्ववासनामात्र विजृ ' भितम् । ननु नित्यानित्यत्व-भेदाभेदयोर्भवतु प्रागुक्तदिशैकत्र वृत्तित्वं सत्त्वाऽसत्त्वयोस्तु कुत इति चेत् ? श्रुणु । सर्वं हि वस्तु स्वद्रव्यादिचतुष्टयापेक्षया सत्, परद्रव्यादिचतुष्टयापेक्षया च न सत् । व्यवहति हि घटोऽयं मार्त्तत्वेन काशीयत्वेनाऽद्यतनत्वेन रक्तत्वेन चास्ति, न तु ग्रावयत्वेन प्रयागीयत्वेन श्वस्तनत्वेन श्यामत्वेन चेति ।
नन्वेतादृशमसत्त्वं व्यधिकरणधर्मावच्छिन्नाभावपर्यवसन्नमिति चेत् १ किं तावता ? ताहशाऽभावे मानमेव नास्तीति चेत् ? न, 'घटत्वेन पटो नास्तीति प्रतीतेरेव मानत्वात् । यत्किंचि - द्धर्मावच्छिन्नप्रतियोगिताकत्वं यत्र तृतीयान्ताल्लभ्यते तत्र प्रकारीभूततद्धर्मावच्छिन्नप्रतियोगिताकस्यैव व्युत्पत्तिबललभ्यत्वात् । कथमन्यथा घटत्वेन कम्बुग्रीवादिमान्नास्तीत्यादिप्रतीतेरपि प्रामाण्यम् ? प्रत्यक्षे हि येन रूपेण प्रतियोगिनोऽनुपलम्भस्तद्धर्मावच्छिन्ना प्रतियोगिता संसर्ग - मर्यादया भासते. तादृशधर्म एव च तृतीयान्तेनोल्लिख्यते इति । घटास्तित्वं च प्रदेशपु जपरिणमनरूपं मार्त्तत्वेन न विरुद्धम् । न च समयकालस्याऽनवच्छेदकत्वाद् द्रव्यादिचतुष्टयबाधस्तत्र प्रतीतिबलात् स्वस्यैव स्वास्तित्वावच्छेदकत्वात् ।
अथ यदेव स्वरूपेणाऽस्तित्वं तदेव पररूपेण नास्तित्वमिति द्वयमेव तावत्प्रदर्शनीयमिति चेत् ? नयनमुन्मिलय, ग्रावत्वेन नास्तित्ववति पटादौ किं मार्त्तत्वेनास्तित्वमुपलब्धवानसि ! मार्चत्वमार्त्तभिन्नत्वाभ्यामस्तित्व नास्तित्वयोस्तथाप्यद्वैतमेवोपलभे इति चेत् ? तत्किं तत्तनिमि