________________
लघुस्याद्वादरहस्ये
१८ ]
यिकेन चक्षुरादीन्द्रियावयवेष्वनुद्भूतस्पर्शमनभ्युपगच्छता जातिविशेष एव द्रव्यारम्भकताव - च्छेदकत्वेनाऽभ्युपेयः, स च तमस्यपि सम्भवतीति । न च द्रव्यारम्भकत्वाऽन्यथानुपपत्त्यैव तत्रानुद्भूतस्पर्शोऽभ्युपगम्यतामिति वाच्यम्, अनन्तानुद्भूतस्पर्शकल्पनामपेक्ष्य जातिविशेषकल्पनाया एवोचितत्वात् । तादृशजातेरन्त्यावयविन्यप्यभ्युपगमान्न सुवर्णत्वादिना सांकर्यम् । न च घटादीनामप्यारम्भकत्वं स्यात्, तत्तदन्त्यावयवित्वेन प्रतिबन्धकत्वात् । मूर्त्तत्वेनैव द्रव्यारम्भकत्वं, न च मनसोऽपि मूर्त्तत्वात्तदारम्भकत्वाऽऽपत्तिः, मनोन्यमूर्त्तत्वेनैव तथात्वादित्येके । मूर्त्तत्वेनैव तथात्वं, मनमि द्रव्यानुत्पत्तिस्तु विजातीयसंयोग रूप हेत्वन्तराभावादित्य परे ।
यस्तु-द्रव्यारम्भकतावच्छेदकतया पृथिव्यादिचतुर्खेव भूतग्वाख्यो जातिविशेषः कल्प्य ते, आकाशे भूतत्वव्यवहारस्तु भाक्त इति, तन्न, तमः साधारणस्याऽपि तस्य कल्पयितु ं शक्यत्वात् । मनसोऽनतिरिक्तत्वनये भूत मूर्त्तपदयोः पर्यायत्वापत्तेश्च ।
स्वतन्त्रास्तु - एकत्वनिष्ट एव द्रव्यारम्भकतावच्छेदकजातिविशेषः कल्प्यते । स चान्त्या - वयव्येकत्वव्यतिरिक्त एवेति न तत्तदन्त्यावयवित्वेन प्रतिबन्धकत्वकल्पना गौरवमित्याहुः । इत्थञ्च तमःसद्भावे मानमप्याहुः - तमो भावरूपं, घनतर - निकरलहरीप्रमुख शब्दैर्व्यपदिश्यमानत्वात, आलोकवत् । मनु तमसो नीलरूपवच्चे पृथिवीत्वमेव स्यान्नातिरेक इति चेत न, दाहप्रयोजकपृथिवीत्वाभावस्य जल इव तमस्यपि तवान पलपनीयत्वात् । नन्वेवं नीलसमवायिकारणतावच्छेदकपृथिवीत्वाभाववति तमसि नीलमाकस्मिकं स्यादिति चेत् न, उभयसाधारणजातिविशेषस्यैव नीलसमवायिकारणतावच्छेदकत्वात् । विजातीयानुष्णाशीतस्पर्शस्येव विजातीयनीलस्यैव पृथिवीत्वं जनकतावच्छेदकमित्यप्याहुः । अवयवनीलादिनैवावयवनीलोपपत्तौ पृथिवीत्वस्य तत्समवायिकारणताऽनवच्छेदकत्वं स्वसमवायिसमवेतत्वसम्बन्धेनावयवनीलादिर्मात रूपादौ नीलानुत्पत्तिस्तु जन्यसन्मात्रसमवायिकारणतावच्छेद की भूतद्रव्यत्वाभावादेवेति तर्वैकदेशिनाऽपि स्वीकाराच्च ।
एवं च ' नात्रालोकः किन्त्वंधकार' इति व्यवहारोऽपि समर्थितः । नायं ' नात्र घटः किन्तु तदभावः' इतिवत्समर्थयितु ं शक्यते, नात्रालोकः किन्त्वन्धकारतदभावाविति व्यवहारतिरस्यापि दर्शनात् । यत्त्वंधकारस्यालोका भावत्वेऽधंकारे नालोकः इति प्रतीतिर्न स्यादिति केनचिदुक्तं तत्तु मोघं घटाभावे घटो नास्तीतिवत्तदुपपत्तेः । एवं सत्यंधकारे ऽन्धकार इति प्रतीत्यापत्तिस्तु स्यादेव । नह्यन्धकारत्वमालोकाभावत्वादिदानीमतिरिच्यते । अथैतादृशसमभिव्याहारस्य शाब्दबोधजनकत्वान्नेयमापत्तिः, जायमान प्रतीतेः प्रमात्वं त्विष्टमेवेति चेत् १ तथा प्यंधकारे नांधकार इति प्रतीते मत्वं स्यात् । अभावचाक्षुषं प्रत्यालोकाधिकरणसंनिकर्षस्य हेतुत्वादालोकं विना दृश्यमानस्य तमसो नाऽभावत्वं इत्यपि कश्चिदिति दिग् ॥५॥