________________
इलो० ५ ॥
अन्धकारव्यत्वसिद्धिः ।
[ १७
तुल्यः । चन्द्रिकायां पेचकादेस्तु चाक्षुषमेवाऽभ्युपेयम् । न च दिवाऽपि तद्ग्रहाऽऽपत्तिः, फलबलात्सौ लोकस्य तत्प्रतिबन्धकत्वकल्पनादित्याहुः ।
तत्तुच्छम्, तमः पश्यामीति प्रतीतेर्निरालम्बनत्वापत्तेः । अथ पश्यामीति विषयता न्यायनये चक्षुः संनिकष दोषविशेषयोरिव मन्मते तामसेन्द्रियसंनिकर्षस्यापि नियम्या, अव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ दानेन व्यभिचाराऽप्रचारादिति चेत् न, तथापि तामसेन्द्रियेण तमस इव घटादीनामपि, पेचकादीनामिव नराणामपि ज्ञानाऽऽपत्तेः । न च नरतामसेन्द्रियजन्यज्ञानं प्रति तादात्म्येन तमसस्तमस्त्वादेश्व कारणत्वं, अंजनादिसंस्कृतचक्षुषां तस्करादीनां तु बहलतमे तमसि घटादीनां न तामसेन्द्रियजन्यं ज्ञानं किन्तु च क्षुषमेव । न बालोकं विना कथं तदानीं तेषां तच्चाक्षुषमिति वाच्यम्, आलोकस्येवाञ्जनादेरपि चाक्षुषे चक्षुषः पृथक् सहकारित्वात् ।
अज्ञ्जनादिसंस्कृतचक्षुष एवालोकाजन्यचाक्षुषे हेतुत्वादंजना देहेतुतावच्छेदकत्वमेवेत्यपि कश्चित् । तन्न, अञ्जनाद्यभावाकालीन चाक्षुषं प्रति स्वमंस्कृतचक्षः संयोगसम्बन्धेनाञ्जनादेरेव हेतुत्वचित्यादित्यपरे । वस्तुतः सामान्यतः एका चाक्षुषजननी योग्यताऽपरा च तमःसंयुक्तचाक्षुषजननी । तत्र पेचकादीनां दिवा न चाषं मानवानां च नक्तं न घटादिचाक्षुषमित्यत्र स्वभाव एव शग्णम् । न चैवं स्वभाववादिमतप्रवेशः समवायाऽभ्युपगमे तदप्रवेशात्, बहिरिन्द्रियज्ञाने उपनीतस्य विशेषणत्वमेव, मानसे तु विशेष्यत्वमपि, इत्यादौ परस्यापि स्वभावस्याश्रयणीयत्वात् । सर्वज्ञानस्वभावावगमे तत्तत्पुरुषतत्तद्देशतत्तत्कालतत्तद्विषयाद्याश्रित्य विचित्रज्ञानावरणक्षयोपशमवशाद्विचित्रज्ञानदर्शने को वा विस्मयः स्याद्वादाऽऽस्वादसुदधियाम् !
fear तमसोऽभावत्वे विधिमुखप्रत्ययो न प्रादुः स्यात् । न च ध्वंसादिवदुपपत्तिस्तथापि घटस्य ध्वंस इति वदालोकस्य तमः इति प्रत्ययापत्तेः । न चालोकाभाव एव संके. तत स्तमः शब्दः इति न तदापत्तिस्तथापि करिकलभेत्यादिवत्तत्प्रयोगस्य साधुत्वापत्तेः । किञ्च, अंधतमसावतमसाद्युत्कर्षाऽपकर्षदर्शनादपि तस्य द्रव्यत्वं महदुद्भूताऽनभिभूतरूपवद्यावत्तेजोभावत्वकतिपय तदभावत्वयोरज्ञानेऽपि तद्व्यवहारात् । इत्थं च तमश्वलतीत्यादि प्रत्यक्षमपि तद्रव्यत्वसासि । न च स्वाभाविकगतेरन्यगत्यनुविधानानुपपत्तिः, पद्मरागप्रभायामेवाश्रयचलनानुविधानदर्शनात् । पद्मरागचलनं विनापि कुड्यावरणविगमादिनापि तत्प्रभा चलनमुपलव्धमिति चेत् ? तर्हि स्थिरेऽपि स्थंभादौ प्राक् पश्चात् दीपसम्बन्धादिना तमश्चलनोपलभः किं काकेन भक्षितः । किञ्च तमसः प्रागभावत्वे उत्पत्तिप्रत्यय इतराभावत्वे विनाशप्रत्ययश्च न स्याताम् ।
स्यादेतत्-तमसो जन्यद्रव्यत्वे स्पर्शवदवयवारभ्यत्वं स्यात् स्पर्शवदनं त्याऽवयवित्वस्य द्रव्यारम्भकतावच्छेदकत्वादिति चेत् ! मैव, तत्र स्पर्शवत्त्वस्येष्टत्वात् । किञ्च, नव्यनैया