________________
लघुस्याद्वाद रहस्ये
I
'पेचकादिचाक्षुषे व्यभिचारश्च सर्वत्र साधारणदूषणम् । न च नरचाक्षुषं प्रत्येव तस्य कारणता, अञ्जनादिसंस्कृतचक्षुषां तस्करादीनां चाक्षुषे तथापि व्यभिचारात् । न च स्वाभाविक'रचाक्षुषत्वस्य कार्यतावच्छेदकत्वान्नायं दोषः, स्वाभाविकत्वस्या लोकसंस्कृतचक्षुर्जन्यत्वरूपस्यालोककारणतापरिचयं विनाऽपरिचयात्, अन्यस्य दुर्वचत्वात् । अथाऽञ्जनाद्यसंस्कृत चक्षुर्जन्यत्वं तदिति चेत् ? न, आदिपदार्थाननुगमेन कार्यतावच्छेदकाऽननुगमात् । नाप्यालोकेतराऽसंस्कृतचक्षुर्जन्यत्वं तत् आलोकेतरस्याञ्जनादेर्व्यभिचारेण चाक्षुषाऽजनकत्वेन चक्षरसंस्कारकत्वात् । अंजनाद्यभावकालीनचाक्षुपं प्रत्यंजनादीनां जनकत्वे चालोकाभावाऽकालीन चाक्षुषत्वमात्रस्या'लोकसंयोग कार्यतावच्छेदकौचित्यात् । एवमपि सिद्धं नः सभीहितमिति चेत् न, तदपेक्षया लाघवेन तमःमंयुक्तान्यचाक्षुषत्वस्यैव तत्रौचित्येन तमसो द्रव्यत्वसिद्धेः, पूर्वोक्तमत्पथि लाघवतर्कस्य सर्वातिशायित्वाच्च ।
१६]
यत्तु फलचलात्तत्रालोकविशेषः कल्प्यते, व्यभिचारग्रहे सत्यालोकस्य कारणताग्रहस्यैवानुपपत्तेः । कथमेवमिति चेत् १ न, तदवच्छेदेन व्यभिचारग्रहस्यैव तत्सामानाधिकरण्येनापि कारणताग्रहप्रतिबन्धकत्वात्, अत्र चालोकत्वसामानाधिकरण्येनैव तद्ग्रहे तत्सामानाधिकरण्येन कारणताग्रहस्य निरपायत्वात्, अन्यथा क्वचित्प्रथममतिप्रसक्तेनापि धर्मेण कारणताग्र होत्तरं पश्चादनुगतावच्छेदकधर्मकल्पनासिद्धांतव्याकोपाऽऽपत्तेरिति तन्न, तदालोकेनान्येषा - मपि चाक्षुषा वरत्वात् । अनन्तप्रतिनियतसंस्कारकता कल्पने च महगौरवदिति ग् । एतेन " द्रव्यचाक्षुषसामान्यं प्रत्या लोकसंयोगकारणतायाः क्लृप्तत्वादालोकं विना वीक्ष्यमाणस्य तमसः कथं द्रव्यत्वं" इत्यपि दूरमपास्तम् ।
तौतातिकैकदेशिनस्तु - द्रव्यचाक्षुषं प्रत्यालोकसंयोगस्य हेतुत्वेऽपि तामसेन्द्रियेणैव तमोग्रहसम्भवान्नानुपपत्तिः । न च मीलितचक्षुषोऽपि तद्ग्रहापत्तिः, चक्षुः श्रवः श्रोत्रवत्तस्य 'चक्षुर्गोलकाधिष्ठानत्वात् । म च तद्व्यस्थापकगुणाभावात्तादृशेन्द्रियाऽसिद्धिः, गुणत्वस्य व्यवस्थापकतायामतन्त्रत्वात्, इन्द्रियान्तराऽग्राह्यग्राहकतामात्रस्य प्रकृतेऽपि सच्चात् । न च पेचकादीनां दिवापि घटादिग्रहापत्तिः, तामसेन्द्रिये तमःसंयोगस्यापि सहकारित्वात् । न च तमसि तमः संयोगासंभवो, गगनतमः संयोगस्यैव जागरुकत्वात् । नन्वेवमपि किश्चिदवच्छेदेन तमःसंयोगवति भित्त्यादावालोकसंयुक्तेऽपि तामसेन्द्रियेण प्रतीतिः स्यादिति चेत् ? तर्हि तमः - संयोगावच्छेदकावच्छिन्नतामसेन्द्रियसंयोगस्यैव तद्ग्रहहेतुत्वमस्तु विनिगमनाविरहस्तु तवापि
१- पेचको = घूकः, तदुक्तं श्रीहेमसूरिपूज्यै:, - " घूके निशाटः काकारिः कौशिकोलूक पेचकाः । श्लो०१३२४ अभि० चि० ।