________________
अन्धकारद्रव्यत्वसिद्धिः । श्लो० ५||
[ १५
स्पार्शनजनकतावच्छेदकजातिव्याप्यत्वे विनिगमकाऽभावः, विषयस्य तत्तद्व्यक्तित्वेन कारणतायां मानाऽभावश्च । यत्तु त्वक्संयुक्तत्वाचवत्समवायत्वेन प्रत्यासत्तित्वान्न त्रुटि स्पर्शस्पार्शनमिति, तन्न, आश्रयत्वाचस्य नियमतः पूर्वमभावेन त्वाचवत्वग्य विशेषणत्वाऽयोगादुपलक्ष्णत्वे घटाद्युत्पत्तिद्वितीयक्षणे स्पर्शादिस्पार्शनऽपत्तेः कालभेदेनैकस्यामेव व्यक्तावनंतत्वाचानां सम्भवेन तावत्त्वाच प्रवेशाऽपेक्षया महत्त्वोद्भूतस्पर्शयोरेव प्रत्यासत्तिमध्ये प्रवेशस्य त्रुटि स्पर्शेऽनुद्भूतत्वकल्पनस्य चोचितत्वात्, वायोस्त्वाचेन तद्वृत्तिस्पर्शत्वाचानुपपत्तेश्चेत्यभिकमन्यत्र । तमस्युद्भूतस्पर्शवत्त्वमपि प्रतीतिसिद्धमेवेति तु प्राञ्चः ।
अथाssलोकाभावेनैव तमोव्यवहारोपपत्तेर्न तस्य द्रव्यत्वकल्पनमिति चेत् १ विपरीतमैत्र किं न रोचयेः ? आलोकस्य चाक्षुषजनकसंयोगाश्रयत्वेन क्लृप्तत्वान्नैनमिति चेत् न, चक्षुरप्राप्यकारितावादीनामस्माकं तमःसंयुक्तचाक्षुषं प्रति योग्यताविशेषकारणत्वस्यैवेष्टत्वात । न च तादृशयोग्यतां विनाऽपि किञ्चिदंशेन तमःसंयुक्तद्रव्यग्रहाद्व्यभिचार इति वाच्यम्, मन्दतमः संयुक्तांशग्रहे तादृशयोग्यताया अवश्याऽपेक्षणात् । अंशांशिनोः कथंचिद्भेदस्य च प्रत्यक्षसिद्धत्वात् । न च तस्मिन्नेवांशे नयनपराङ्मुखतमः शालिन्यपि प्रत्यक्षोदयादा लोकसंयोगावच्छेदकावछिन्नचक्षुःसंयोगस्यैव द्रव्यचाक्षुषे हेतुत्वमुचितमिति वाच्यम्, घूकादिश्चाक्षुषानुरोधेन चक्षुरुन्मुखतमःसंयोगवच्चाक्षपं प्रति योग्यता विशेष हेतुत्वस्यैवाऽवश्यमाश्रयणीयत्वात् । आलोकाऽजन्यद्रव्यचाक्षुषं प्रत्येवैतस्य हेतुत्वमस्त्विति तु नाभिधानीयं, आलोकजन्यतावच्छेदकनियतरूपस्यैवापरिचयात् । आलोकासंयुक्तचाक्षुषं प्रति तस्य हेतुत्वमित्यपि न वक्तु ं युक्तम्, महदुद्भूतरूपवत्तन्निवेशे गौरवादन्यथा स्फुटदोषात् । अधिकमन्यत्र प्रपञ्चितमस्माभिः इति श्रेयः ।
I
परेण हि चक्षुःसंयोगावच्छेदकावच्छिन्नमहदुद्भूताऽनभिभूतरूपवदालोकसंयोगत्वेन द्रव्यचाक्षुषत्वावच्छिन्नं प्रति कारणता वक्तव्या । सा च न सम्भवति आलोकसंयोगस्याप्यवच्छेदकत्वसम्भवे विनिगमनाविरहात् । एतेन स्वावच्छेदकावच्छिन्नचक्षुः प्रतियोगिकसंयोगसम्बन्धेन तस्य कारणताऽपि प्रत्याख्याता । अथ द्रव्यनिष्टलौकिकविषयितासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति पर्यवसन्त्यास्तस्याः कारणताया अपेक्षया लाघवात् समवायेन तमोभिन्नीयलौकिकविषयतावचाक्षुषं प्रत्या लोकसंयोगस्य स्वावच्छेदकावच्छिन्नसंयोगवच्चक्षुः संयुक्तमनः प्रतियोगिकविजातीसंयोगसम्बन्धेन कारणता कल्प्यते । चक्षुःसंयोगस्य स्वावच्छेदकावच्छिन्ना लोकसंयोगावच्छेदकावच्छिन्नस्ववच्चक्षुः संयुक्तेत्यादिसम्बन्धेन कारणतायां गौरवमेव विनिगमकमिति चेत् ? न, तथापि कारणतावच्छेदकांतर्गत कतिपयभागानां सम्बन्धविधया निवेशाऽनिवेशाभ्यां तद्दोषात्, स्वावच्छेदकावच्छिन्नेत्यादि संबंधेन तत्र तमःसंयोगस्य प्रतिबन्धकत्वकल्पनाया अप्यवकाशाच्च ।