________________
१४ ]
लघुस्याद्वादरहस्ये णाधुच्छेदः, साक्षात्संकेताऽसंभवे तदवकाशात् । न च घटत्व-पटत्वादिना शक्तिकल्पने गौरवं प्रमेयत्वादिनैव तत्कल्पनात् , तत्तद्धर्मेण बोधस्य संकेतविशेषनियम्यत्वात् । न चैवं शक्तिरन्तगडरिति वाच्यं, वाचकताप्रतिनियमस्य तया विनाऽनुपपत्तरित्याकरे स्पष्टत्वात् । कालाद्यष्टकस्वरूपं च श्रीपूज्यलेखापवसेयमिति दिग्मात्रमेतत् । तर्कास्त्वत्रत्याः अस्मत्कृतसप्तभंगीतरंगणोतोऽवसेयाः ।
ननु भवतु कदाचिदन्यस्य वस्तुनो नित्यानित्यत्वं, प्रदीपादेस्तु सर्वथाऽनित्यत्वमेवो चितमिति त् ? न, प्रदीपादिपुद्गलानामेव तमस्त्वेन परिणमनात् , द्रव्यत्वेनाऽनाशात् । भथैवं तमसो द्रव्यत्वं स्यादिति चेत् १ स्यादेव ।
तेजसः किल निवृत्तिरूपता, यान्धकारनिकरे परोदिता ।
प्रन्तयां वयममो समीक्षिणस्तत्र पत्रमवलम्ब्य तन्महे ॥ तत्र तमसो द्रव्यत्वे रूपवत्त्वमेव मानम् । न च तदेवासिद्धं, तमो नीलमिति प्रतीतेः सार्वजनीनत्वात् । न चाद्भूतरूपवत्त्वमुद्भूतस्पर्शव्याप्यं, इन्द्रनीलप्रभासहचरितनीलभागस्तु स्मर्यमाणनीलारोपेणैव निर्वाहात् गौरवात् न कल्प्यते इति न तत्र व्यभिचारः, कुकुमादिपूरितस्फटिकमांडे बहिरारोप्यमाणपीताश्रयेऽपि न व्यभिचारस्तत्रापि स्मर्यमाणारोपेणैव निर्वाहात् , बहिर्गन्धोपलब्धेस्तु वाय्वाकृष्टानुभूतरूपभागान्तरेणैवोपपत्तरिति वाच्यं, तादृशव्याप्ती मानाऽभावात् • प्रभायां व्यभिचारात् । न च नीलरूपवत्त्वमेवोद्भूतस्पर्शव्याप्यं, त्रसरेणौ व्यभिचारात् । न च पाटितपटसूक्ष्मावयववत्तत्राप्युद्भुतस्पर्शवत्वानुमानं, अनुभूतरूपस्योद्भूतरूपजनकताया इवाऽनुद्भतस्पर्शस्याऽपि निमित्तभेदसंसर्गणोद्भूतस्पर्शजनकतासम्भवादृष्टान्ताऽसंप्रतिपत्तेः । जन्यानुद्भूतरूपं प्रत्यनुद्भूतेतररूपाऽभावम्य कारणत्वपक्षे तप्ततैलम्थादनुद्भूतरूपाद्वढ्नेरुद्भूतरूप. भागांतराकर्षणेनैवोद्भूतरूपोत्पत्तिस्वीकारादत्र दृष्टान्ताऽसम्प्रतिपत्तिरिति चेत् ? न, तथापि त्रस. रेणोरुद्भतस्पर्शवत्वे तत्स्पार्शनप्रसङ्गात् । द्रव्यान्यद्रध्यसमक्तम्पार्शनजनकतावच्छेदकीभूतप्रकर्षबन्महत्त्वाऽभावान्नायं दोष इति चत १ न, तादृशप्रकर्षम्यकन्वेऽपि कल्पयितु शक्यत्वेन विनिगमनाविरहात् । अथैकत्वे तादृशजातिकल्पने स्वतन्त्रमतसिद्धद्रव्यचाक्षुषजनकतावच्छेदकीभूतैकत्वनिष्टजात्या सांकर्यमेव विनिगमकमिति चेत् ? तथापि सा जातिमहत्त्वे कल्प्यतामियं त्वेकत्व इत्यत्रैव विनिगमकमन्वेषणीयम ।
भथ द्रव्यचाक्षुषजनकतावच्छेदकैकत्वनिष्टजातिव्याप्यैव द्रव्यान्यद्रव्यसमवेतस्पार्शनजनकतावच्छेदकजातिरभ्युपेयता, वायोरचाक्षुषत्वं तु विषयविधयाऽकारणत्वादिति चेत् ? तर्हि एवमेव त्रुटिस्पर्शाऽस्पार्शनस्याप्युपपत्तव्यचाक्षुषजनकतावच्छेदकैकत्वनिष्टजातेद्रव्यान्यद्रव्यसमवेत