________________
[१३
सप्तमङ्गीनिरूपणम् । इलो० ५ ।।
अथ केयं सप्तभंगीति चेत् १ एकत्र वस्तुन्येकैक धर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितसप्तधा वाक्प्रयोगः सप्तभंगी' ति सूत्रम् । (प्रमाणनयतत्वालोक-परिच्छेद ४ सूत्र १४ ] यः खलु प्रागुपदर्शितान् वस्तुनः सप्त धर्मानवलम्ब्य संशेते, जिज्ञासते, पर्यनुयुङ्क्ते च तं प्रतीयं फलवती, प्रश्नस्य तुल्योत्तरनिवर्त्यत्वात् । यथा च सामान्यतः शब्दः सर्ववाचकोऽपि संकेतविशेषं सहकृत्याऽन्वयं बोधयति तथेयमप्यर्पणाविशेषसहकृत्वरी सतीति । शाब्दे इच्छाऽनियामकत्ववचो मोघम् । सप्तभंगीविनिमुक्तशब्दमात्रस्याऽबोधकत्वं तु नाऽऽशंक्यं, विधिप्रतिषेधाभ्यां स्वार्थमभिदधान इत्यनेनाऽर्पणाविशेषस्थल एव तदनुवर्त्तनाऽभिधानात् ।
अत्र च स्यान्नित्यत्वादिषु सप्तभंगेषु एवकारोऽवधारणार्थ कोऽन्यथाऽनुक्तसमत्वापातात् । स्यात् पदं तु तत्र तदवच्छेदकरूपपरिचायकं तदपरिचये सांकर्यापातात् । सेयं सकलादेशस्वभावा, विकलादेशस्वभावाच । तत्र प्रमाणप्रतिपन्नानंतधर्मात्मकवस्तुनः 'कालादिभिरमेदवृत्तिप्राधान्यादभेदोपचार द्वा] यौगपद्येन प्रतिपादकं वचः सकलादेशः [प्रमाणनय० परि० ४ सू०५४ ] । तदन्यो विकलादेशः । नित्यत्वादीनां कालादिभिरभेदे हि एकेनाऽपि शब्देनैक धर्म प्रत्यायनमुखेनाऽनेकधर्मरूपस्य तदात्मकतापन्नस्य वस्तुनः प्रतिपादनसम्भवात् यौगपद्यम् । मेदविवक्षायां तु सकृदुच्चरितेत्यादिन्यायादेकशब्दस्याऽनेकार्थानां युगपदबोधकत्वात् क्रमः ।
अथ सकृदुच्चरितेत्यादिन्यायस्य प्रामाणिकत्वे एकशिष्टघटादिपदस्यानेकघटादिबोधकत्वं न स्यात्, न स्याच्च कस्मादपि घटपदात् प्रातीतिको घट-घटत्वयोरपि बोधः इति चेत् १ न, अग्रिम मकृत्पदस्यैकधर्मावच्छिन्नार्थकत्वात् । एकशेषस्थले तु पदान्तरस्मरणमेव कल्प्यमन्यथा घटपदात् समवायकालिकविशेषणताभ्यां घटत्वाऽवच्छिन्नयोर्युगपद्बोधप्रसक्तिभिया तद्धर्मावच्छि न्नस्य बोध्यतावच्छेदकतावच्छेदकैकसम्बन्धावच्छिन्नत्वगर्भत्वावश्यकतया विषयता- समवायाभ्यां गुणत्ववद्बोधकैकशिष्टतदादिपदादुभयप्रतीतिर्न प्रादुर्भवेत् । एकपदस्यैकस्मिन् काले एकसम्बन्धावच्छिन्नैकधर्मप्रकारतानिरूपित विशेष्यताशालिबोधोपधायकत्वमिति निष्कर्षः । तेन नैकपदस्य वस्तुतो नानाधर्मावच्छिन्नार्थबोधकत्वेऽपि क्षतिरिति ध्येयम् । धर्मे एकत्वञ्च यावद्बोध्यवृत्तित्वादिकम् ।
यन्तु - स्वाश्रयबोध्यतावच्छेदकत्वसम्बन्धेनैकवृत्तिमत्त्वं तद्बोध्यत्वं तेन न पशुत्वादेर्नानात्वेऽपि दोष इति न्यायनयानुयायिनः, तन्न, सर्वस्य सर्वपदशक्यत्वात् । न चैवं लक्ष
५--के पुन' कालादयः ? कालः, आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्द इत्यष्टाविति रत्नाकरावतारिकायाम् । २- सकृदुच्चरितः शब्दः सकृदेवाऽर्थं गमयतीति न्यायात् ।