________________
१२]
लघुस्याहावरहस्ये __अथैवमपि द्रव्यकर्मरूपाऽर्थक्रियाकारित्वमात्मनः कथमिति चेत् ? निमित्तीभूतभावकर्मकतृत्वेनोपचारादिति गृहाण । एवं घटादिक त्वमप्यात्मनः उपचारादेव बोध्यम् , प्राप्यत्वगर्भकर्मत्वस्य परिणामविशेष एव पर्यवसानात् । न हि क्रियाजन्यफलशालित्वादिकं पराभिमतं कर्मत्वमपि सार्वत्रिकं, घटं जानातीत्यादावेव तदभावात् । एतेनाऽर्थक्रियेत्यत्र प्रथमातत्पुरुषेऽपि क्रमपक्षः प्रत्याख्यातः । युगपत् पक्षे तु प्रत्यक्षबाधः । एकान्ताऽनित्यपक्षऽपि दोषमभिदधाति "एकान्ताऽनित्यपक्षेऽपि" इति-क्रमाक्रमयोरसम्भवप्रतीतिबाधाभ्यामिति भावः ॥४॥
अथैकान्तवादोपकल्पितकर्कशतरतर्कतिमिरनिकरनिराकरणेन प्रकटीभूतप्रतापं भास्वतमनेकान्तवादमभिनन्दन्ति-'यदात्वि'ति
यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् ।
थत्याथ भगवन्नव तदा दोषोऽस्ति कश्चन ||५|| ननु परेऽपि पृथिव्यादिन्यपि परमाणुरूपाणि नित्यान्यन्यानि अनित्यानि प्रतिजानत इति को विवादोऽतः प्राहुः 'यथात्थे' ति । भगवान् हि घटादिकमप्येकं वस्तु 'स्यान्नित्यं, 'स्यादनित्यं, स्यानित्यानित्यं, स्यादवक्तव्यं, 'स्यान्नित्यमवक्तव्यं, स्यादनित्यमवक्तव्यं, स्यानित्यश्चाऽनित्यश्चाऽवक्तव्यञ्चेति प्रकाशयति न तथा परे स्वप्नंऽपि संविद्रत इति भावः।
इदमिदानीं निरूप्यते । सर्वत्र हि वस्तुनि स्यानित्यत्वादयः सप्त धर्माः प्रत्यक्षं प्रतीयन्ते । तथाहि-घटो द्रव्यत्वेन नित्यः, पर्यायत्वेनानित्यः, क्रमिकविधिनिषेधार्पणासहकारेण स्यानित्याऽनित्योऽपि प्रतीयते । न च समुदिताभ्यां नित्यत्वाऽनित्यत्वाभ्यामेव तन्निर्वाहाद्धर्मान्तरकल्पनं किमर्थकमिति वाच्यं, समुदितयोस्तयोविलक्षणत्वेनैतत्स्थानाऽभिषेचनीयत्वात् । न चात्र प्रत्यक्षे इच्छायाः कथं नियामकत्वं, प्रतीतिबलादेतादृशेच्छाविशिष्टबोधं प्रत्येतादृशेच्छायाः कारणत्वकल्पनात् । युगपदुभयाऽर्पणासहकारेण स्यादवक्तव्योऽपि न तु सर्वथा, अवक्तव्यपदेनाऽप्यवक्तव्यत्वापत्तेः । न चाऽवक्तव्यत्वं शब्दाऽबोध्यत्वरूपं कथं योग्यमिति वाच्यम् , उपदेशसहकारेण पद्मरागादिवत्तद्ग्रहात् । नित्यत्वस्यात्र क उपकार इतिचेदवक्तव्यत्वेन परिणमनमित्येव गहाण । वक्तव्यत्वेन परिणमनं तु नित्यत्वादिविशेषेणैव विश्राम्यतीति न तदतिरेकावकाशः । क्रमाक्रमाभ्यां विध्युभयकल्पनासहकारेण स्यान्नित्यः स्यादवक्तव्यः । ताभ्यां निषेधोभयकल्पनासहकारेण स्यादनित्यः स्यादवक्तव्यश्च । ताभ्यामुभयकल्पनासहकारेण च स्यानित्यः, स्यादनित्यः, स्यादवक्तव्यश्च । अत्रापि समुदायपक्षाऽऽशंका प्राग्वत् समाधातव्या । न च विशेषण-विशेष्यभावे विनिगमनाविरहः, तथाप्येतत्कृतपरिणत्यनतिरेकात् । नित्यानित्यत्वादयो जात्यन्तररूपा इत्यप्याहुः । अत एव अमृनवलम्ब्य सर्वत्र सप्तभंगी संगतिमंगति ।