________________
सांख्याभिमतसत्कार्यवादनिरासः
[ ११
पूर्वोत्पत्यनन्तरमेव फलं कुतो न भवतीति वाच्यम्, वृत्तिलाभकालस्यापि नियामकत्वात् । अथ निर्व्यापारस्यैव यागादेरव्यवहितत्वांशविनिर्मुक्तकारणताग्रहः सम्भवतीति चेत् ? न, अव्यवहितपूर्व समयावच्छेदेन कार्यवति यदभावो ज्ञायते तत्रैव कारणताबुद्ध्यनुदयेन तद्गर्भायाः कारणताया औचित्यात्, कीर्त्तनादिनाश्यत्वेनाऽपूर्वसिद्धेश्व ।
तचादृष्टमात्मनो गुणरूपं विहितनिषिद्धक्रियाजन्यमित्याहुः । तच्चाऽयुक्तम् — स्वभावभेदे - नैवात्मना धर्माधर्मयोर्जनने एकान्तनित्यतापक्षक्षतेः । वस्तुतः शुभाशुभोपयोगावेव धर्माधमौ, तदुपनीतप्रकृतिविशेषाऽवाधाकालपरिपाकाच्च फलोदय इति दिग् ।
अत एव बन्धमोक्षयोरपि कर्मादानसकलकर्मविप्रमोक्षलक्षणयोस्तत्पक्षेऽसम्भवः । एव मेकान्ताऽनित्ये' त्यादिना क्षणिकत्वपक्षेऽपि दोषो विभावनीयः || ३||
क्रमाक्रमाभ्यामिति - अप्रच्युताऽनुत्पन्नस्थिरैकरूपाणां हि क्रमेण युगपद्वाऽर्थक्रियाकारित्वं न घटामटाटूयते । तथाहि - अर्थस्य = घटादेः, क्रिया - ज्ञानादिरूपा, तत्कारित्वं-तजनकत्वम्, सर्वथा नित्यानामात्मादीनां देशक्रमेण कालक्रमेण वा न सम्भवति, यत्किञ्चिद्देशकालावच्छेदे - नैव सकलकार्यकरणसामर्थ्यात् । अन्यथा देशकालभेदेन स्वभावभेदादनित्यस्थापातात् । अथात्मादीनामर्थक्रियाकारित्वेऽपि सर्वत्र सर्वदेत्यापादकाभावस्तत्स्वभाववर्ता देशकालादीनां विल
कार्यविलम्ब इति चेत् १ न तत्तद्देशप्रतिबद्धेतरकालत्वेन तत्तत्काल प्रतिबद्धेतरदेशत्वेन च कारणताया अध्यात्ममतपरीक्षायां प्रदर्शितत्वात् । एवं च तत्तद्देशकालाद्यवच्छेदेन स्वभावभेदे सर्वथा नित्यत्वापायात् ।
स्यादेतत्-एवं सति घटादीनां कारणता न स्यात् । मैव, विनिगमनाविरहेण तेषामपि तत्सम्भवात् । न चैवं गौरवं, प्रतीतिसिद्धस्वभावस्यैवमेव कल्पनात् । किञ्च कारणकलापमेलकस्य कार्योपधायकत्वेऽपि तस्यापि वैचित्र्यात् स्वभावाऽवैचित्र्ये का प्रत्याशा १ तस्मात् स्वभावावैचैत्र्येऽप्यन्यादृशं नित्यत्वमेव तत्रास्तीति स्वाग्रहमेव गृहाण । तमेव गृह्णामीति चेत् ? पथः स्मर मोचितोऽसि ततः प्राक् ।
अथ पूर्वपूर्वपरिणामानामेवो तरोत्तर परिणामजननस्वभावत्वादात्मनः कूटस्थनित्यत्वमेवोचितमिति चेत् १ न, तस्य तदभेदेनैव कर्तृत्वात् । अत एवैकस्य षट्कारकी भावोऽन्यत्र प्रासाधि । अथ नित्यचेतनास्वभावत्वरूपार्थक्रियाकारित्वादात्मनः कूटस्थनित्यत्वमेवोचितमनित्यचेतनायास्तु प्रधानसाध्यत्वमिति चेत् ? न, चेतनायाः स्वतो नित्यत्वात् पर्यायतोऽनित्यत्वस्यैतदपक्षपातित्वात् । ज्ञानकर्मफलरूपायाः स्वतन्त्रप्राप्यत्वेन कर्मीभूतायाश्चेतनायास्तत्तदुपयोग - परिणतेन स्वतंत्रतयाऽऽत्मनैव कर्त्रा सम्भवात् प्रधाने मानाभावात् ।
,