________________
१०]
मस्याद्वाररहस्ये चेत् १ न, तथापि ज्ञानादिसाक्षाद्वत्तेनित्वादेरेव मंसप्रतियोगितावच्छेदकत्वात् । आत्मत्वव्यापकत्वमपि तस्य न साक्षादिति न कोऽपि दोषः ।
इदमत्र ध्येयम्-यद्यपि यत्किश्चिदघटाऽन्यत्याभाववत्यजायमानया घटाऽत्यंताभावप्रतीत्या तत्र घटत्वावच्छिन्नप्रतियोगिता सिध्यति, ध्वसे तु नवं, तथापि 'घटत्वेनायं ध्वस्तो न तु मृत्त्वेने'त्यादिप्रतीत्या तत्र सा सिध्यति । अवच्छेदकता तु स्वरूपविशेषः । सा च क्वचिदतिप्रसक्तेऽपि धर्म प्रतीतिबलात्कल्प्यत इति । प्रावस्तु-पूर्वाकारपरित्यागेनोत्तराकारपरिणतिरूपं कार्यत्वमात्मत्वावच्छेदेनैव गायन्ति । नन्वेवमात्मनः कार्यत्वव्यवहारः स्यान्नतु ज्ञानादेः, तस्याऽनीदृशत्वात् इति चेत् ? न, द्रव्यकार्यत्वस्यैवैतमक्षणत्वात् । पर्यायकार्यत्वस्य तु ध्वंसप्रतियोगित्वमेव लक्षणम् । अत एव द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्यत्वमित्येव रत्नाकरावतारिकायामभिहितम् । ध्वंसप्रतियोगितानवच्छेदकरूपवत्त्वस्य नित्यत्वे तदनवच्छेदकरूपवत्वमेवोभयानुगतं कार्यत्वमित्यभिप्रेत्य तु प्रागुपदर्शितः पन्थाः । ध्वंसस्यापि किश्चिदुत्पत्तिरूपत्वात्तध्वंससंभवान्नाऽव्याप्तिः । घटादिनाशस्य कालविशेषविशिष्टकपालत्वादिनयेऽपि कपालत्वादिना तन्नाशसंभवोऽनन्यथासिद्धानियतोत्तरवर्तितावच्छेदकरूपवत्वे वा तात्पर्यमिति ध्येयम् । ____ अथाऽनित्यत्वपक्षेऽपि दोषमाहुः-"एकान्तानित्यरूपेऽपि" इति-निगदसिद्धमिदम् । अयं भावः-एकान्तानित्यस्यापि सतः आत्मनः सुखदुःखयोयुगपद्धोगो विरुद्धत्वादेव नेष्टः । क्रमभोगे तु क्षणिकत्वहानिः, तत्तत्क्षणध्वंसाधिकरणसमयस्येव क्रमपदार्थत्वात् , क्षणिस्य तु तदसंभवादिति ।
हेममुरिगिरी गुम्फे, यस्यास्ति परमा गतिः ।
द्वितीयानुष्टुभो व्याख्या, स पशोविजयोऽतनोत् ।।२।। श्री अथोभयोः पक्षयोषणांतरमुभाभ्यामनुष्टुब्भ्यामाहुः 'पुण्यपाप' इति
पुण्यपापे पन्धमोक्षौ, न नित्यैकान्तदर्शने पुण्यपापे बन्धमोक्षौ, नाऽनित्यैकान्नदर्शने ॥३॥ क्रमाक्रमाभ्यां नित्यानां, युज्यतेऽर्थक्रिया न हि ।
एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ।।४।। एकान्तनित्यात्मवादिमते पुण्यपापयोरसम्भवः । ते हि 'यागब्रह्महत्यादीनां क्षिप्रभंगुराणां स्वर्गनरकादिकं प्रति श्रुतिबोधितकारणतायाः फलपर्यन्तव्यापारव्याप्ततया तत्र व्यापारस्य चान्यस्याऽसंभवात् परिशेषाददृष्टसिद्धिः । न च ध्वंसेनैव निर्वाहस्तस्य फलाऽनाश्यत्वात् । नचाऽपूर्वस्यापि प्रथमस्वर्गादिना नाशात् फलसन्तानो न निर्वहेत् इति वाच्यम् , तस्य चरमफलनाश्यत्वात् । चरमत्वं च स्वसमानजातीयप्रागभावाऽसमानकालीनत्वादिकं जातिविशेषो वा । नचा.