________________
श्लोक २-भोगपदार्थविवेचनम् एव घटं जानातीत्यादौ द्वितीयाया विषयित्वे लक्षणा नाऽनुपपमा । कञ्योगे षष्ठ्यनुशासनं च द्वितीयाऽसाधुत्वज्ञाप, निष्ठादिवर्जनं च निष्ठायां तत्साधुत्वज्ञापकं, कृत्ययोगे विकल्पविधानं च निष्ठायां शेषषठ्यसाधुत्वज्ञापकमिति चत् ? न, तथापि तत्र सम्बन्धत्वप्रकारकनोधस्यैवेष्यमाणत्वात् । अत आहुः 'आत्मना'ति
आत्मन्येकान्त नित्ये स्यात् न मोगः मुखदुःखयो ।
एकान्ताऽनित्यरूपेऽपि न भागः सुस्वदुःखयोः ॥२॥ आत्मन्येकान्तनित्ये-अभ्युपगम्यमान इति शेषः । सुखदुःखयोर्भोगः साक्षात्कारो न स्यात् । यद्यपि मोगपदं सुखदुःखान्यतरसाक्षात्कारे रूटमिति पुनः 'सुखदुःखयो' रित्युपादाने पौनरुक्त्यं, तथापि 'विशिष्टवाचकानामित्यादिन्यायात् भोगपदमत्र साक्षात्कारमात्रपरं दृष्टव्यम् । न च शक्यादनन्येऽर्थे कथं लक्षणा, 'शक्यतावच्छेदकरुपभेदे एव लक्षणास्वीकारात् , यथा जयतेः प्रकष्टजये । तदाहुः "शक्यादन्येन रूपेण झाते भवति लक्षणे" ति ।
नेयायिकैकदेशिनस्तु-"भोगत्वं चाक्षुषादिसामग्रीप्रतिवध्यतावच्छेदककुक्षिप्रविष्टतया सिद्धो जातिविशेषः । न च स्वसमवायिलौकिकविपयितया भोगान्यमानसप्रतिबन्धकतावच्छेदकीभूतसुखदुःखवृत्तिजातिविशेषवदन्यज्ञानत्वादिकमेव मानसान्यसामग्रीप्रतिवध्यतावच्छेदकं. सुखदुःखवृत्तिजातिविशेषवत्प्रतिवध्यतावच्छेदकमपीदमेव तेन न तत्प्रविष्टतया मोगत्वसिद्धिरिति वाच्यं, अनया दिशा साक्षात् सुखादिवृत्तिर्जातिः प्रतिबध्यतावच्छेदककोटी प्रवेश्या, साक्षात् मानसवृत्तिोगत्वजातिर्वा स्वसमवायिलौकिकविषयतासम्बन्धेन प्रतिवन्धकतावच्छेदककोटौ प्रवेश्येत्यत्र विनिगमकाभावात् , प्रागुक्तजातेनित्वपर्यन्तसम्बन्धेन प्रतिवध्यतावच्छेदकत्वप्रसं. गाच्चे"त्याहुः । ['तन्मते सुखदुःखयोरित्यस्य न पोनरुक्त्यम् । ]
[अथ प्रकृतं प्रस्तुमः।] 'अयं भावः-एकान्तनित्यः सम्भारमा सुखदुःखे युगपद्भञ्जीयात् , क्रमेण वा १ नायो, विरोधात् । न द्वितीयः स्वभावमेदेन सर्वथानित्यत्वहानेः । सुखदुःखानुभः वकालेऽपि तत्स्वभावत्वत्मात्मनः कथमिति चेत् ? तस्य गुणरूपत्वात् ; गुणगुणिनोश्च भेदामेदस्य निपुणतरमुपपादितत्वादिति गृहाण । स्वभावो हि स्वद्रव्य गुण-पर्यायाऽनुगतं स्वरूपास्तित्वं, तच्च सादृश्या(द)स्तित्वेनैकीभवतोऽप्यन्यस्माद्भेदप्रतीतिमाधत्ते।
__ अथैवमपि ध्वंसाऽप्रतियोगित्वरूपं सर्वथा नित्यत्वमक्षतमेवेति चेत् १ न, ज्ञानत्वादिना तख़सादात्मत्वादिना नेति तु प्रागेव प्रत्यपीपदाम । आत्मत्व-ज्ञानत्वयोरपि भेदे का प्रत्याशेति
१ विशिष्ट गचकपदानां सति विशेषणवाचकपरसमवधाने विशेष्यार्थमात्रपरत्वमिति न्यायात् । २ ममावत्ते शक्यतेत्यादिना । ३ कोष्ठद्वान्तर्गनौ पाठी मध्यमवृत्तेर्षोजितौ आवश्यकत्वात् । ४'भयं भावः' पाठो नावश्यको नास्ति च मध्यमवृत्ती।