________________
लघुस्याद्वादरहस्ये आयेऽनायासेनैव सिद्धा क्षणभंगुरता भगवती । किंच-तत्तत्क्षणावच्छेदेन घटादेः प्रध्वंसाऽप्रतियोगित्वकल्पनापेक्षया प्रध्वंसप्रतियोगित्वकल्पनैव लघीयसी । वस्तुतः तत्तत्क्षणेष्वेवास्तु घटत्वपटत्वादिकम् । नच संकरः, वासनाकृतविशेषेण तन्निरासात् । अत एव न स्थितिकाले घट उत्पन्नो, घटो ध्वस्त इत्यादि प्रतीतिः । विशिष्टोत्पादध्वंसयोर्विशेषणसत्त्वविरुद्धत्वात् । न च 'स एवायं घट' इति प्रत्यभिज्ञा क्षणिकत्वे बाधिकाः स एवायं गकार इत्यादि प्रत्यभिज्ञाया इव तस्यास्तज्जातीयामेदविषयत्वात् । किश्च-नित्यस्य सतो वस्तुनः सर्वदार्थक्रियाकारित्वापत्तिः, स्वतः सामर्थ्याऽसामाभ्यां परोपकारानवकाशात् । स्वतः समर्थमपि तत्कारणांतरसहकृतमेव कार्यमुपदधातीति चेत् ? न, कार्यानुपधानसमये सामर्थे मानाभावात् । तस्मात् कुर्वद्रूपस्यैव कारणत्वाद्वस्तुनो मदुक्तक्षणभारभंगुरस्य सतः क्षणविश्राम एवोचित इति ।"
(क्षणिकवाद निरासः ] तदतिजरत्तरं-विनाशस्वभावत्वेन क्षणिकत्वे स्थितिस्वभावत्वेन नित्यत्वस्याप्याऽऽपत्तेः। स्थितिप्रत्ययो भ्रान्तो, विनाशप्रत्ययस्तु प्रमेति तु निजप्रणयिनीमनोविनोदमात्रम् | ध्वंसप्रतियोगित्वं तु यथा त्वया विधिपर्यायेण कल्प्यते तथा मया निषेधपर्यायेणापीति न दोषः । वासनाया ध्रुवत्वे तु नामान्तरेण द्रव्यमेवाऽभ्युपेतवान् भवान् , कृतांतं च कोपितवान् , अध्रुवत्वे तु किमनयाऽजागलस्तनायमानया १ कुर्व पत्वेन तु न कारणता, तस्य प्रागपरिचयात् इष्टसाधनताज्ञानविलम्बात् घटार्थिनो दंडादौ प्रवृत्त्यनुदयापत्तेरिति दिक् ।
श्रीहेमसूरिवाचामाचामति चातुरीपरविचारम् । व्याख्याताद्यश्लोको जसविजयस्ता परिचिनोति ॥१॥ [प्रथमश्लोकविवरणं समाप्तम् ]
ननु भवतु कदाचिद्वाह्यवस्तुनो नित्यानित्यत्वम् ; प्रमातुस्तु न कथमपि । न च ज्ञानाद्यभेदात् तथात्वं, तथा सति दुःखाभेदाद् दुःखध्वंसस्यापि आत्मध्वंसरूपत्वात्तदर्थिनो यमादौ प्रवृत्तिर्न स्यात् । न च दुःखध्वंसत्वमेव काम्यतावच्छेदकं, तत्राऽऽत्मध्वंसत्वरुपाऽनिष्टतावच्छेदकज्ञानस्य प्रवृत्तिप्रतिबंधकत्वात् । न चाऽऽत्मत्वावच्छिन्नध्वंसत्वमेव चार्वाकादिमतप्रसिद्धमनिष्टतावच्छेदकं, विजातीयसुखत्वमेव वा काम्यतावच्छेदकमिति वाच्यम्, तथापि “नित्यं विज्ञानमानन्दं ब्रह्म"(तैत्तरीय-आरण्यक) इत्यादिश्रुत्या तस्य नित्यत्वौचित्या नित्यसुखादिनैव सममभेदबोधात् । न च 'आनन्दं ब्रह्मणो रूपं, तच्च मोक्ष प्रतिष्ठितमि" ति मेदबोधकश्रुतिसद्धावादुपचरितार्थत्वमेव तस्या युक्तमिति वाच्यम्, राहोः शिरः इत्यादौ षष्ठ्या अभेदेऽपि दर्शनात् । अत्राऽभेदप्रकारकबोधदर्शनाल्लक्षणैव, श्रुतौ तु सा न युक्तेति चत् १ न; सुविभक्तौ लक्षणाऽनभ्युपगमात् , अन्यथा व्यत्ययानुशासनवैयर्थ्यात् ।।
अथ विभक्त्यंतरार्थे विभक्त्यंतरस्य लक्षणाया निषिद्धत्वज्ञापकं व्यत्ययानुशासनम् , अत