________________
एकान्तानित्यपक्षदूषणम् विनिगननाविरहः, स्वाश्रयविषयतासम्बन्धं कार्यतावच्छेदकीकृत्य द्रव्यत्वादिना तथात्वेऽपि मूर्तत्वादिना स एव दोषः" इत्यपास्तम् । इत्थश्च द्रव्यमानं सर्वथा नित्यमस्तु । न चैवं तंतूनामेव पटत्वातंतौ पट इति प्रत्ययो न स्पादिति वाच्यं, फलबलेन विलक्षणसंयोगवत्त्वरुप पटत्वादिविशिष्टाधारतावच्छेदकत्वस्य विलक्षणसंयोगवत्त्वरुपशक्यतावच्छेदकभेदात् । तंतुसंयोगात्पट उत्पन्न इति व्यवहारस्तु भ्रान्त एव, पटपदं वा पटाभिव्यक्तिपरम् । पट उत्पन्नइत्यादिप्रतीतिस्तु पटत्वादिघटकसंयोगोत्पादमात्रमवगाहते । तंतुः पट इति प्रतीतिस्तु वृक्षो वनमिति वदेव नोदेति । पटः तंतव इति प्रतीतिस्तु एकत्वधर्मितावच्छेदककबहुत्वप्रकारिका सतीच्छाविशषमपेक्षते । एकत्र द्वयमिति न्यायेन तदन्वयबोधापादने शब्दाऽसाधुत्वमेव वा । 'अधिकं मत्कृतन्यायवादार्थेषु बोध्यम् ।"
अत्र ब्रमः-पर्यायत्वावच्छेदेनैव द्रव्यस्य कारणता सामान्यतो गृहीतेत्यसमानजातीयद्रव्यपर्यायरूपस्य घटस्य कथं न जन्यत्वम् १ अन्यथा कपालस्यैव घटत्वात्कपालरूप-घटरूपयोर्भेदो न स्यात् , तथा च प्रत्यक्षबाधः । किञ्चैवं दण्डादौ घटसाधनताज्ञानेन प्रवृत्तिन स्यात् । अथ "विजातीयसंयोग(व)त्वमेव घटत्वं, युक्तं चैतत् , कथमन्यथा घटत्वस्य जातित्वं ? मृत्त्वस्वर्णत्वादिना सांकर्यात् । न च कुलालादिजन्यतावच्छेदकतया मृत्त्वस्वर्णत्वादिव्याप्यं नानाघटत्वमेव स्वीकर्तव्यमनुगतधीस्तु कथञ्चित् सौसादृश्यात् , घटपदं तु नानार्थकमिति वाच्यम् , कुम्भकारादेविजातीयकृतिमत्त्वेन तत्त्वे घटत्वस्यैकत्वौचित्यात् इति चेत् ?" न, एवं सति घटवत्यपि भूतले संयोगेन घटो नास्तीति प्रतीतेः प्रमात्वापातात् , घटः पटसंयुक्त इत्यादिप्रतीतेरप्रमात्वापाताच्चेति दिक्।
अथ अनित्यत्वैकान्तपक्षेऽपि दोषमाहुः "भ्यातामि"ति । एकान्तनाशे नित्यत्वाऽसंभिन्ननाशे कृतस्य नाशो अकृततुल्यता । तन्मते हि वस्तुनः सर्वस्य क्षणिकत्वादुत्पत्तिसमनंतरमेव घटस्य नाशः, इति पृथुबुध्नोदरत्वादिपर्यायाणामाधारेण केन भवितव्यम् ? तथाऽकृतस्याऽऽगम: अर्थक्रियाकारित्वम् । यद्धि कुम्भकारादिना घटादिकं कृतं तेन तु दुर्जनमनःप्रणयपरंपरावत्तदानीमेव दध्वंसे, तथा च जलाहरणादिक्रियासु व्याप्रियमाणेन तेनाकृतेनैवोपपस्थातव्यमिति दूषणद्वयमिदं बौद्धबुध्युपनीतकाकुव्याकुलीकरणप्रवणं प्रसज्येतेति भावः ।
[क्षणिकवादपूर्वपक्षः] इदमप्यत्र विचार्यते-किं क्षणभंगुरमेव वस्त्वन्यथा वा ? तत्र घौडा:-"मुद्गरादिसमवधानदशायां घटादेर्यत् स्वरुपं वरीवर्ति तेन प्रागासीनं न वा ? अन्त्ये स्वरुपभावहान्यापत्तिः,
१-अधिक अधिकं पूर्वपक्षवचनमित्यर्थः ।