________________
६ ]
लघुस्याद्वाद रहस्ये
न स्यात्, इतोऽपि कारणात् प्राक् कार्यस्य सत्त्वमुपेयम् । तथा तादात्म्यादपि सत्कार्यम्, अवयविनोऽवयवभेदाऽप्रतीतेरिति । तदयुक्तम्, यतो घटत्कारणव्यापारात्प्रागप्यस्ति तर्हि तदानीमुपलम्भप्रसङ्गः ।
अथाऽनाविर्भावात् नोपलभ्यते इति चेत् १ कोयमनाविर्भावः ११ उपलब्ध्यभावो वा, २ अर्थक्रियाकारिरूपाऽभावो वा ३ व्यञ्जकाऽभावो वा ४ योग्यताऽभावो वा ५ कालविशेषविशिष्टत्वाऽभावो वा, ६ जिज्ञासाऽभावो वा ७ तिरोधानं वा, ८ अन्यद्वा ?
नाद्यः, यस्यैवाक्षेपस्तस्यैवोत्तरे घट्टकुटी प्रभाताऽपातात् । अथ घटानुपलब्ध्याक्षेपे संस्थानाद्यनुपलम्भस्योत्तरत्वमिति चेत् ? न संस्थानज्ञानस्य संस्थानिज्ञानात् पूर्वं नियतमनपेक्षणात्तस्यापि प्राक्सत्त्वे उपलब्धेरापाद्यत्वात् असत्वे वक्ष्यमाणदोषानुसङ्गाच्च |१| न द्वितीय:, अर्थक्रियारुपस्य प्रागसत्वेऽसत्कार्यवादापातात् । २ । अत एव न तृतीयोऽपि, प्राथमिकोपलब्धौ कुविन्दादिसमुदायस्योपलब्धिमात्रे वा विजातीयसंयोगस्य कारणत्वेऽपि तयोः प्राक्सत्त्वावश्यकत्वात् | आविभूतयोरेव तयोः तथात्वमिति चेत् न, आविर्भावस्यापि सदसद्विकल्पग्रासात् । विजातीयसंयोगाद्याविर्भावस्य प्राक्सन्वेऽपि विजातीयसंयोगेन समं तस्य सम्बन्धो नास्तीत्यप्यसमीक्षिताभिधानं तद्दोषाऽनतिवृत्तेः ।
एतेन "विषयिताविशेषसम्बन्ध एव घटत्वादेः विजातीय संयोगजन्यतावच्छेदकतावच्छेदकोऽस्त्वनंतप्रागभावप्रध्वंसाद्यकल्पनलाघवात्" इत्यपि परास्तम् । तदभावेऽपि घटत्वविनिर्मुक्तविषयताकघटसाक्षात्काराऽऽपत्तेश्व । किञ्च घटादेः कुम्भकारादिव्यङ्ग्यत्वे जन्यत्वव्यवहारो निरालम्बनः स्यात्, अन्यथा दिनकर-करनिकराऽभिव्यञ्जिते घटे तज्जन्यव्यवहाराऽऽपत्तेः | ३ | नाऽपि तुरीयः - महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वादिरुपायाश्चाक्षुषादियोग्यतायाः प्रागुFaदिशा प्रागपि सच्चात् |४| नापि पञ्चमः, कालविशेषस्य कारणत्वेनाऽनतिप्रसंगे एककारणपरिशेषाऽऽपत्तेः । विशेषस्याऽऽगन्तुकोपाधिरूपस्य सदसद्विकल्पग्रासाच्च |५| नापि षष्ठः, सत्यामपि जिज्ञासायां कारणव्यापारात्प्राक्कार्याऽनुपलम्भाज्जिज्ञासाया ज्ञानमात्रं प्रत्यहेतुत्वाच्च । जिज्ञासितबोधं प्रति जिज्ञासाया हेतुत्वे जिज्ञासां विनापि तत्राऽजिज्ञासितबोधाऽऽपत्तेश्च ६ । नापि सप्तमो, अनाविर्भावस्यैव तिरोधान पदार्थत्वात्तस्य च लक्ष्यत्वादद्यापि नियतनिर्वचनाऽपरिचयात् ७ । नाप्यष्टमोऽनिर्वचनात् | ८ | [इति]
9
स्यादेतत्-"विजातीयसंयोगस्य जन्यसाक्षात्कारत्वं जन्यतावच्छेदकमस्तु न तु जन्यद्रव्यत्वं, अनंतप्रागभावः प्रध्वंसाऽभावकल्पनागौरवात् । न च विजातीयसंयोगं विनापि गुणादौ द्रव्यसाक्षात्कारोदयाद्व्यभिचारः, द्रव्यनिष्ठलौकिकविषयतायाः कार्यतावच्छेदकसम्बन्धत्वेन तदुद्धारात् । एतेन–“द्रव्यसाक्षात्कारत्वस्य तत्कार्यतावच्छेदकत्वे मूर्त्त साक्षात्कारत्वादिना