________________
सांख्या भिमतसत्कार्यवादनिरासः तन्तव इति प्रतीतेरप्यबाधितत्वात् । अन्यत्र रुपादिप्रतियोगिकत्वविशिष्टभेदाभेदस्याधारतात्वेप्यत्रान्यतरप्रतियोगिकत्वविशिष्टस्येव तस्य प्रतीतिबलेन तथात्वकल्पनात् । तदुक्तमुदयनेनापि "संविदेव हि भगवती वस्तूपगमे नः शरणमिति" । परमारणूनामपि शुद्धस्य स्वस्यैव स्वाश्रयत्वं भाविभूताश्रयसम्भवेनैव वा तदाश्रितत्वमक्षतमन्यथा द्रव्यचतुष्टयस्य सार्वत्रिकत्वाऽसम्भवादिति' तचिन्त्यम्, अत्यन्तविभिन्नानामपि आकाशादिरूपैकाश्रयसम्भवेन भेदाभेदसम्बन्धावच्छिन्नाश्रयताविवक्षणे स्फुटदोषात् ।
जवस्तु-सार्वजनीनप्रतीतिस्वारस्यादेव भेदाभेदयोन विरोधः । अत एव न संकर-व्यतिकर-संशया ऽनवस्था-दृष्टहान्यदृष्टकल्पनाः । भेदश्च स्वरूपान्तरात् स्वरुपव्यावृत्तिरुपः । स चैकद्रव्यगुणपर्यायेष्वपि सम्भवति । अयम्भावः-यथाहि सूत्रग्रथितमुक्ताफलानामपेक्षाबुद्धिविशेषविषयत्वरुपं हारत्वं सूत्रमुक्ताफलाधारतावच्छेदकं तथा गुणपर्यावाणां तादृशं द्रव्यत्वमपि । तथा, यथा च हारत्वसूत्रत्वमुक्ताफलत्वावच्छेदेन शुक्लत्वप्रतीतिस्तथा द्रव्यत्वगुणत्वपर्यायत्वावच्छेदेन सत्त्वप्रतीतिरपि । यथा च शुक्लत्वाद्यवच्छिन्ने हारत्वाद्यवच्छिन्नभेदस्तथा सत्त्वत्वाद्यवच्छिन्ने द्रव्यत्वाद्यवच्छिन्नभेद इति । तदुक्तं-"सद्दव्वं सच्च गुणोत्ति'। 'विस्तार: तत्तद्धर्मावच्छिन्नविशेष्यतानिरुपिताः प्रकारताः । नन्वेवं वृक्षो वनमितिवत् सद् द्रव्यमिति प्रयोगो न स्यात्, यत्र हि यद्धर्मावच्छिन्नप्रकारकबुद्धिविषयत्वं व्यवहारौपयिकं तत्तद्धर्मावच्छेदेनैवाभेदेनान्वेतीति व्युत्पत्तेरिति चेत् ? न, एतन्नियमस्य विशिष्य विश्रामादिति दिक् ।
यद्वा कृतस्य-कुम्भकारादिप्रयत्नस्य नाशः= 'उपधानाऽव्याप्यत्वम्, अकृतस्य कुम्भकारादिप्रयत्नाऽभावास्याऽऽगमोऽनुपधानाऽव्याप्यत्वं च स्याताम् , वस्तुनः सर्वथा नित्यस्वात् , तथा च व्यवहारबाधः इति भावः।
अत्रेदं विभाव्यते-सांख्यहि सदेव वस्त्वभिमन्यते । तदुक्तं-“असदकरणादुपादानग्रहणात्सर्वसम्भवाऽभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्"। [सांख्यकारिका-९] इति । असतः शसविषाणादेः कत्तु मशक्यत्वात् , सत एव सत्करणस्वाभाव्यात् । उपादानेन ग्रहणात् सम्बन्धात् , न ह्यसतः सम्बन्धोऽस्ति । असम्बद्धस्यैव करणमिति चेत् ? न, सर्वसंभवाऽभावात् असम्बद्धत्वाऽविशेष हि सर्वे सर्वस्माद्भवेयुः, न चैवमिष्टमिति । तथाऽशक्तस्य जनकत्वेऽतिप्रसंगात् शक्तस्य जनकत्वं वाच्यम, शक्तिश्च कार्यस्य प्रागसत्त्वे नियता
१-सहव्वं सच्च गुणो, सच्चेव य पजओत्ति वित्थारो । जो खलु तस्म अभावो, सो तदभावो अतब्भावो ।। प्रव० सार० अ०२ गा० १५ ।।
.-फलोत्पत्त्यव्याप्यत्वमित्यर्थः । घटादिवस्तुनो नित्यत्वात् कुम्भकारादिप्रयत्नस्य वैफल्यमेव न तु फलनिष्पत्तिव्याप्यत्वमिति भावः।