________________
घुस्याद्वाद रहस्ये
चित्तु भेदोऽन्योन्याभावोऽभेदस्तु धर्मान्तरमित्यभ्युपैति । अत्र तादृशाभेदस्य व्यवहाराatri यदाविश्व मणिकृता, तत्तुच्छम्, प्रमेयमभिधेयमित्यादौ तस्यैव शरणीकरणीयत्वात् । दिगम्बर मतानुयायिनस्तु भेदाभेदो भेदविशिष्टाऽभेद एव, सम्बन्धता तु तयोरुभयत्वेन रूपेण । न चोभयत्वमपि एकविशिष्टापरत्वमिति विशेषणविशेष्यभावे विनिगमनाविरहः, अविशिष्टयोरपि गोत्वाश्चत्वयोरुभयत्वप्रत्ययात्तस्याऽतिरिक्तधर्मत्वात् । न च भेदाऽभेदयोरेकत्र विरोधः, न हि वयं यत्र यस्य यो भेदः तत्र तस्य तदभावमेव त्र महे किन्त्वन्यमेवेति । तथाहिभेदो द्विविधः, पृथक्त्वरूपोऽन्योन्याभावरूपश्च । तत्र पृथक्त्वं प्रविभक्तप्रदेशत्वरूपमन्योन्याभावस्त्वतद्भाव इति ।
तु पृथक्त्वमन्योन्याभाव एव इत्यभिदधे दीधितिकृता, तन्न, एवं सति घटः पटात्पृथगितिवद्रूपात्पृथगित्यपि प्रमीयेत । यदवोचाम श्रीपूज्य लेखे - " " अण्णं घडाउ" ति । तथाचान्योन्याभावादपि पृथक्त्वस्य भेदाभेद एवेति तत्त्वम् । नचैवमनवस्था, प्रामाणिकत्वात् । तत्र घटपटादीनां नैतदन्यतराभाव इति केवलभेदः, तेषां भेदत्वावच्छिन्नाऽभावा संचलितत्वात् । प्रतिस्वं प्रातिस्विकरूपेणोभयाभावात्केवलाऽभेदो, अवयवावयव्यादीनां त्वतद्भावसत्त्वेऽपि पार्थक्याभावात् भेदाभेद इति ।
४ ]
अत्रेदमस्माकमाभाति - प्रविभक्तप्रदेशत्वमित्यत्र बहुव्रीह्याश्रयणे परमाणवः कुतोऽपि न पृथग्भवेयुः । एवं कर्मधारयाश्रयणे देशस्कन्धयोरपि स एव दोषः । स्कन्धाश्रितपरमाणूनामेव प्रदेशत्वसंज्ञया तदनाश्रितपरमाणूनाश्च कुतोऽपि न पृथक्त्वं घटे ।
किञ्च – प्रदेशेषु किं प्रविभक्तत्वं १ न तावदन्यत्वं, एकद्रव्यस्यैव प्रदेशानां तादृशत्वात् । नापि पृथक्त्वं, तस्य प्रविभक्तस्कन्धकत्वरूपतयाऽन्योन्याश्रयात् । तथाहि - प्रदेशानां प्रविभक्तत्वसिद्धौ प्रविभक्तप्रदेशत्वरूपं स्कन्धानां पार्थक्यं सिध्यति, सिद्धे च स्कन्धानां प्रविभक्तत्वे प्रविभक्तस्कन्धकत्वरूपं प्रदेशानां पार्थक्यं सिध्यतीति । अथ पृथक्त्वं जात्यंतररूपमेवेति चेत्तर्हि मेदाभेद एव तादृशः किमिति नास्थीयते ?, धर्मिधर्मो भय भासकसामग्र्या एव तद्भासकत्वेन व्यञ्जकगवेषण विश्रामात् ।
एतेन “पृथक्त्वव्यवहाराऽसाधारणकारणं तदि" त्यप्युपेक्षितम्, कारणतावच्छेदकरूपपरिचयं विना तादृशनिर्वचनासम्भवाच्च । यत्तु - 'विभिन्नाश्रयाऽऽश्रितत्वमेव पार्थक्यं, विभिन्नाश्वाश्रयाः स्कन्धानां देशा इव देशानां स्कन्धा अपि सम्भवन्ति, तन्तौ पट इति वत्पटे
१ अण्णं घडावं, पण पुढोत्ति विसारदाण ववहारो । भेदा उणो पुधत्तं, मिज्जदि ववहारबा घेणं ॥ इति मध्यमे ।
[ अन्यत् घटात् रूपं, न पृथगिति विशारदानां व्यवहारः। भेदात्पुनः पृथक्त्वं, भिद्यते व्यवहारबाघेन ]