________________
समवायनिरासेन भेदाभेदस्थापना
तदन्योन्याभावश्च श्यामावच्छेदेन । तदिहापि नीलस्याऽन्योन्याभावो घटत्वावच्छेदेनेति नीला घटस्य भेदोsस्तु, अभेदस्तु नीलान्योन्याभावाऽभावरूपो घटे न, घटत्वावच्छेदेनैव विरोधात्, एकावच्छेदेन भावाऽभावयोरेकत्राऽवृत्तेरज्ञानाच्च । नाप्यवच्छेदकान्तरेण घटत्वावच्छिन्ने घटे तदभावः, तदज्ञानेऽपि नीलो घट इत्यनुभवाच्चेति चेत् ? अत्र वदन्ति-न हि भेदाभेदो भेदविशिष्टाऽभेदो, अभेदविशिष्टभेदस्यापि सम्बन्धत्वे विनिगमकाभावात्, किन्तु जात्यन्तररूप एव गुणगुण्यादिविशिष्टप्रतीतिनियामकत्वेन सिद्ध इति क्वावच्छेदकभेदानुपलब्धिबाधः ? एकान्तभेदेऽवयवेष्ववयवी किं भेदेन समवेयात्कात्स्न्र्त्स्न्येन वा ? नाऽऽद्योऽवयवातिरिक्तस्य तद्देशस्याऽभावात् । न द्वितीयः प्रत्यवयवसमवेतावयविबहुत्वप्रसङ्गात् ।
| ३
अथ समवाय एव प्रागुक्तप्रतीतिनियामकत्वेन कल्प्यतामिति चेत् ? न तस्यैकत्वेऽतिप्रसङ्गात्, नानात्वे चैतस्यैव नामान्तरकरणात्, अतिरिक्त कल्पनायां गौरवात् । एतेन " समवायसम्बन्धेन जन्यभावत्वावच्छिन्नं प्रति संयोगत्वावच्छिन्नं प्रति वा द्रव्यस्य कारणत्वेन समवायसिद्धिः" इत्यपास्तम्, लाघवात्भेदाभेदसम्बन्धेन परिणामत्वावच्छिन्नं प्रति परिणामिनस्तत्त्वकल्पनाया एवोचितत्वात् । भेदाभेदस्य जातित्वेऽपि सम्बन्धत्वं प्रतीतिबला देवाऽविरुद्धम् । ननु 'नीलोत्पलं, प्रमेयाऽभिधेयमित्यादौ कर्मधारयेऽभेदस्यैव संसर्गतया प्रदर्शनान्नाऽभेदातिरिक्तभेदाभेदसिद्धिरिति चेत् ?, न, कथंचित्तस्य तदनतिरेकात् । इयांस्तु विशेषो यद् धर्म-धर्मिभावाऽपेक्षया द्वयोर्भेदाभेदः, प्रतिस्वं प्रातिस्त्रिकरुपेण केवलाऽभेदो, गोत्वाश्वत्वादिना तु केवलभेद इति । न चैवमेकान्ताऽनुप्रवेशोऽभेदसम्भिन्नभेदवत्वेनैव तदपायात् ।
इत्थञ्चैतदवश्यमङ्गीकर्त्तव्यम् कथमन्यथा स्याद्भिन्नं स्यादभिन्नमित्यत्र स्यात्पदं नानतिप्रयोजनमिति ध्येयम् । अथ भेदाऽभेदस्याऽभेदत्वे कपाले घट इत्यादावाधाराssधेयभावप्रतीतिर्न स्यादिति चेत् न भेदाभेदत्वेन तस्य वृत्तिनियामकत्वात् । घटाभावे घटो नास्तीत्यादावपि घटाभावत्वेन धर्म- धर्मिभावविवक्षयैव निस्तार इति तत्त्वम् । वस्तुतः तत्तत्प्रतीतिमनुस्मृत्य तत्तत्प्रतियोगिकत्वविशिष्टतत्तत्सम्बन्धस्याऽऽधारतात्वं कल्प्यते, तेन रूपरसयोभेदाभेदसम्भवेऽप्यधाराऽऽधेयभावाऽभावेऽपि न क्षतिरिति ध्येयम् ।
,
नन्वेवमपि भवतु भगवान् भेदाभेदो जात्यंतररूपः, तथाप्यसावेकत्राऽन्योन्याभावतदभावप्रतीतिव्यंग्यः, तयोश्चैकत्रावच्छेदकभेदं विना प्रतीत्यनुपपत्तिरित्युक्तमेवेति चेत् न, घटत्वद्रव्यत्वयोरेव तदवच्छेदकयोः सम्भवात् । यदवदाम स्तुतौ "एक" ति ।
1
१ एकत्र वृत्तौ हि विरोधभाजोर्येषामवच्छेदकभेदयावा । द्रव्यत्वपर्यातयोर्विभेदं विजानतां सा कथमस्तु वस्तु ॥ इति मध्यमस्याद्वाद रहस्ये ।