________________
लघुस्याद्वादरहस्ये प्रत्युत पूर्वमयमेव मृत्पिण्डः (तत्) कम्बुग्रीवत्वादिनासीदिति सर्वोऽपि प्रत्यभिजानीते । न चेयं विशेषणाभावमेव विषयीकुरुते विशेष्ये ननर्थाऽन्वये बाधकाऽभावात्, प्रतीतिप्रातिव्याच्च ।
यत्त यदि ह्यतीतविशेषणावच्छेदेन विद्यमानस्यैव विशेष्यस्य ध्वंसः स्यात् तदा क्षणरूपातीतविशेषणावच्छिन्नत्वेन प्रतिक्षणं घटस्य विनाशः स्यादित्यभिदधे मणिकृता, तत्तु तादृशक्षणभंगस्य दोषानवहत्वात् तदीयैरेव दुषितम् । कश्चित्तु संसर्गावच्छिन्नकिश्चिद्धर्मावच्छिन्नप्रतियोगिताकस्याऽभावस्याऽत्यंताभावत्वनियमान प्रागुक्तप्रतीतेर्विशेषणावच्छिन्नविशेष्याऽभावविषयत्वमिति, तत्तुच्छ, घटत्वस्य ध्वंसप्रतियोगिताऽतिरिक्तवृत्तित्वेऽपि प्रागुक्तविशेषणस्याऽतथात्वात्, यदुत्पत्तौ कार्यस्याऽवश्यं विपत्तिस्तस्य प्रध्वंसत्वाऽभ्युपगमाच्च । नन्वत्र विपत्तिपदार्थाऽपरिचयो, विभागादेः संयोगादिनाशताऽऽपत्तिश्चेति चेत् ? न, प्रतियोग्युत्तरकालीनाऽभावत्वादौ तात्पर्यात्, उत्तरत्रेष्टापत्तेश्च । - स्यादेतत्-घटत्वेन घटध्वंसस्येवाऽऽत्मत्वादिनाऽऽत्मादेर्वसाऽभावादात्मादेरेकान्तनित्यत्वं स्यादिति । मैवं, ध्वंसप्रतियोगित्वे सति ध्वंसाऽप्रतियोगित्वेनैवै कान्तत्वापायात् । इयास्त विशेषो-यदात्मत्वेनाऽऽत्मनो नित्यत्वं तद्भावाऽव्ययत्वात् , घटत्वेन घटस्य तु नेति । ननु तद्भावेन व्ययश्चेत् प्रसिद्धः तदा तदभाव(त्व)रूपं नित्यत्वमात्मत्वादिनाऽऽत्मादौ सम्भवेत् , स एव तु गगनारविन्दसोदर इति चेत् १ न, ध्वंसप्रतियोगितानवच्छेद(क)रूपवत्त्वस्यैव तदर्थत्वात् । न चैवं कम्बुग्रीवादिमत्त्वेन घटस्य नित्यत्वं स्यादिति वाच्यम्, गुरुधर्मस्यापि प्रतीतिबलेनाऽवच्छेदकत्वस्वीकारात् । ध्वंसप्रतियोगिताऽवच्छेदकं यद्धर्मवन्निष्ठाऽ'त्यंताऽभावप्रतियोगितानवच्छेदकं तदन्यधर्मवत्त्वस्य वा तदर्थत्वात् । अथ कपालनाशादेः कपालादिसमवेतनाशं प्रति कारणत्वात् घटत्वेन घटध्वंस आकस्मिक इति चेत् ? न, कारणत्वपर्यायाणां प्रतीतिवलेन विशिष्य विश्रान्तानामेव कल्पनादिति दिक् ।
अथाऽकृतागमः-पर्यायाणामपि नित्यानामेव सतामागन्तुकत्वादन्यथा पर्यायवतोऽप्यनित्यत्वाऽऽपत्तौ नित्यत्वपक्षहानेः । अथ घटत्वादेरेव कपालादिजन्यताऽवच्छेदकत्वात्, घटत्वस्य च कपालाद्यवृत्तित्वान्नाऽयं दोष इति चेत्न, कपालं घटीभूतमिति प्रतीत्या तयोः स्यादभेदसिद्धेः। ___अत्र किश्चिद्विचार्यते-नन्वेवं कपालघटयोर्जन्यजनकभावो न स्यात् , अभेदे तदसम्भवात् । न च कथञ्चिद्भेदोऽप्यभ्युपगम्यत इति वाच्यम् , अवच्छेदकभेदं विनैकत्र भेदाभेदयोर्विरोधात् । तदुक्तं मणिकृता-तस्यैव तत्राभावोऽवच्छेदकभेदेन वर्त्तते. ज्ञायते च यथा संयोगाऽभावः, श्यामावच्छिन्नस्य तस्यैवाऽन्योन्याऽभावः तत्रैव रक्ताऽवच्छिन्ने,
१ 'न्योन्याऽ' इति संगच्छतेऽत्र ।