________________
श्री शंखेश्वरपार्श्वनाथाय नमः | श्रीमद्विजयप्रेम सूरीश्वरेभ्यो नमः |
श्रीमद्विजयभुवन भानु सूरीश्वरेभ्यो नमः । महोपाध्याय - न्यायाचार्य - श्रीमद् - यशोविजय प्रकाशितम् * (लघु) स्याद्वादरहस्यम् #
Br
“कारस्फारमन्त्रस्मरणकरणतो याः प्रसर्पन्ति वाचः,
स्वच्छास्ताः कर्त्तुमिच्छुः सकलसुखकरं पार्श्वनाथं प्रणम्य | चाचाटानां परेषां प्रलपितरचनोन्मूलने बद्धकक्षो,
वाचा श्रीहेमसूरेर्विवृतिमतिरसोल्लासभाजां तनोमि ॥१॥ अभ्यस्य तर्क स्याद्वादरहस्यं शस्ययुक्तिकम् । निरस्तदुर्नयं मार्गप्रवेशा निबध्यते ॥ २ ॥
इह हि निखिलकुवादिकुतर्कसन्तमसच्छन्नं जगतः शुद्धनयलोचनमुन्मिमीलयिषवः श्री हेमतुरयो यथावस्थितार्थव्यवस्थापनद्वारा भगवंतं स्तोतुमुपक्रमते "सत्त्वस्ये" ति । (मूल - वीतराग स्तोत्र - प्र० ८ )
सत्त्वस्यैकान्तनित्यत्वे कृतनाशाऽकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाऽकृतागमौ ॥१॥
अत्र समेकान्तनित्यं नवेति न विप्रतिपत्तिः, एकान्तनित्यत्वकोट्यप्रसिद्धेः । किन्तु नित्यत्वमनित्यवृत्ति न वा, अनित्यत्वं नित्यवृत्ति नवेत्यादिरूपा । न चैवमपि तद्भावाऽव्ययत्वरूपं नित्यत्वं परमतेऽप्रसिद्धम्, नित्यव्यवहारविषयत्वेनैव तस्योपन्यासात् ।
सत्त्वस्य=पदार्थत्वेनोभयमतसंप्रतिपन्नस्य । उत्पादव्ययधौव्यात्मकस्येति व्याख्यानं तु स्वमतावष्टम्भेन शोभते, परमते धर्मितावच्छेदकाऽनिश्चयात् । एकान्त नित्यत्वे - अनित्यत्वाऽसम्भिन्ननित्यत्वे | कृतनाशो- घटादिपर्यायाणां कुम्भकारादिकृतानां सर्वथा नाशः स्यात्, अनित्यस्य नित्यत्वविरोधात् । एतच्च प्रत्यक्षविरुद्धं, पर्यायाणामपि द्रव्यार्थतोऽनाशात् । अयं दंड्यासीदितिवदिदं मृद्द्रव्यं घट आसीदिति प्रतीतेरेकस्यैवातीतविद्यमानत्वभानात्, रूपभेदेनैवोभयधर्मसमावेशसंभवात् । न हि कम्बुग्रीवत्वादिनेव मृत्त्वेनाऽपि घटो नष्ट इति कश्चित्प्रत्येति,