Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ १०] मस्याद्वाररहस्ये चेत् १ न, तथापि ज्ञानादिसाक्षाद्वत्तेनित्वादेरेव मंसप्रतियोगितावच्छेदकत्वात् । आत्मत्वव्यापकत्वमपि तस्य न साक्षादिति न कोऽपि दोषः । इदमत्र ध्येयम्-यद्यपि यत्किश्चिदघटाऽन्यत्याभाववत्यजायमानया घटाऽत्यंताभावप्रतीत्या तत्र घटत्वावच्छिन्नप्रतियोगिता सिध्यति, ध्वसे तु नवं, तथापि 'घटत्वेनायं ध्वस्तो न तु मृत्त्वेने'त्यादिप्रतीत्या तत्र सा सिध्यति । अवच्छेदकता तु स्वरूपविशेषः । सा च क्वचिदतिप्रसक्तेऽपि धर्म प्रतीतिबलात्कल्प्यत इति । प्रावस्तु-पूर्वाकारपरित्यागेनोत्तराकारपरिणतिरूपं कार्यत्वमात्मत्वावच्छेदेनैव गायन्ति । नन्वेवमात्मनः कार्यत्वव्यवहारः स्यान्नतु ज्ञानादेः, तस्याऽनीदृशत्वात् इति चेत् ? न, द्रव्यकार्यत्वस्यैवैतमक्षणत्वात् । पर्यायकार्यत्वस्य तु ध्वंसप्रतियोगित्वमेव लक्षणम् । अत एव द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्यत्वमित्येव रत्नाकरावतारिकायामभिहितम् । ध्वंसप्रतियोगितानवच्छेदकरूपवत्त्वस्य नित्यत्वे तदनवच्छेदकरूपवत्वमेवोभयानुगतं कार्यत्वमित्यभिप्रेत्य तु प्रागुपदर्शितः पन्थाः । ध्वंसस्यापि किश्चिदुत्पत्तिरूपत्वात्तध्वंससंभवान्नाऽव्याप्तिः । घटादिनाशस्य कालविशेषविशिष्टकपालत्वादिनयेऽपि कपालत्वादिना तन्नाशसंभवोऽनन्यथासिद्धानियतोत्तरवर्तितावच्छेदकरूपवत्वे वा तात्पर्यमिति ध्येयम् । ____ अथाऽनित्यत्वपक्षेऽपि दोषमाहुः-"एकान्तानित्यरूपेऽपि" इति-निगदसिद्धमिदम् । अयं भावः-एकान्तानित्यस्यापि सतः आत्मनः सुखदुःखयोयुगपद्धोगो विरुद्धत्वादेव नेष्टः । क्रमभोगे तु क्षणिकत्वहानिः, तत्तत्क्षणध्वंसाधिकरणसमयस्येव क्रमपदार्थत्वात् , क्षणिस्य तु तदसंभवादिति । हेममुरिगिरी गुम्फे, यस्यास्ति परमा गतिः । द्वितीयानुष्टुभो व्याख्या, स पशोविजयोऽतनोत् ।।२।। श्री अथोभयोः पक्षयोषणांतरमुभाभ्यामनुष्टुब्भ्यामाहुः 'पुण्यपाप' इति पुण्यपापे पन्धमोक्षौ, न नित्यैकान्तदर्शने पुण्यपापे बन्धमोक्षौ, नाऽनित्यैकान्नदर्शने ॥३॥ क्रमाक्रमाभ्यां नित्यानां, युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ।।४।। एकान्तनित्यात्मवादिमते पुण्यपापयोरसम्भवः । ते हि 'यागब्रह्महत्यादीनां क्षिप्रभंगुराणां स्वर्गनरकादिकं प्रति श्रुतिबोधितकारणतायाः फलपर्यन्तव्यापारव्याप्ततया तत्र व्यापारस्य चान्यस्याऽसंभवात् परिशेषाददृष्टसिद्धिः । न च ध्वंसेनैव निर्वाहस्तस्य फलाऽनाश्यत्वात् । नचाऽपूर्वस्यापि प्रथमस्वर्गादिना नाशात् फलसन्तानो न निर्वहेत् इति वाच्यम् , तस्य चरमफलनाश्यत्वात् । चरमत्वं च स्वसमानजातीयप्रागभावाऽसमानकालीनत्वादिकं जातिविशेषो वा । नचा.

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182