Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 40
________________ अन्धकारद्रव्यत्वसिद्धिः । श्लो० ५|| [ १५ स्पार्शनजनकतावच्छेदकजातिव्याप्यत्वे विनिगमकाऽभावः, विषयस्य तत्तद्व्यक्तित्वेन कारणतायां मानाऽभावश्च । यत्तु त्वक्संयुक्तत्वाचवत्समवायत्वेन प्रत्यासत्तित्वान्न त्रुटि स्पर्शस्पार्शनमिति, तन्न, आश्रयत्वाचस्य नियमतः पूर्वमभावेन त्वाचवत्वग्य विशेषणत्वाऽयोगादुपलक्ष्णत्वे घटाद्युत्पत्तिद्वितीयक्षणे स्पर्शादिस्पार्शनऽपत्तेः कालभेदेनैकस्यामेव व्यक्तावनंतत्वाचानां सम्भवेन तावत्त्वाच प्रवेशाऽपेक्षया महत्त्वोद्भूतस्पर्शयोरेव प्रत्यासत्तिमध्ये प्रवेशस्य त्रुटि स्पर्शेऽनुद्भूतत्वकल्पनस्य चोचितत्वात्, वायोस्त्वाचेन तद्वृत्तिस्पर्शत्वाचानुपपत्तेश्चेत्यभिकमन्यत्र । तमस्युद्भूतस्पर्शवत्त्वमपि प्रतीतिसिद्धमेवेति तु प्राञ्चः । अथाssलोकाभावेनैव तमोव्यवहारोपपत्तेर्न तस्य द्रव्यत्वकल्पनमिति चेत् १ विपरीतमैत्र किं न रोचयेः ? आलोकस्य चाक्षुषजनकसंयोगाश्रयत्वेन क्लृप्तत्वान्नैनमिति चेत् न, चक्षुरप्राप्यकारितावादीनामस्माकं तमःसंयुक्तचाक्षुषं प्रति योग्यताविशेषकारणत्वस्यैवेष्टत्वात । न च तादृशयोग्यतां विनाऽपि किञ्चिदंशेन तमःसंयुक्तद्रव्यग्रहाद्व्यभिचार इति वाच्यम्, मन्दतमः संयुक्तांशग्रहे तादृशयोग्यताया अवश्याऽपेक्षणात् । अंशांशिनोः कथंचिद्भेदस्य च प्रत्यक्षसिद्धत्वात् । न च तस्मिन्नेवांशे नयनपराङ्मुखतमः शालिन्यपि प्रत्यक्षोदयादा लोकसंयोगावच्छेदकावछिन्नचक्षुःसंयोगस्यैव द्रव्यचाक्षुषे हेतुत्वमुचितमिति वाच्यम्, घूकादिश्चाक्षुषानुरोधेन चक्षुरुन्मुखतमःसंयोगवच्चाक्षपं प्रति योग्यता विशेष हेतुत्वस्यैवाऽवश्यमाश्रयणीयत्वात् । आलोकाऽजन्यद्रव्यचाक्षुषं प्रत्येवैतस्य हेतुत्वमस्त्विति तु नाभिधानीयं, आलोकजन्यतावच्छेदकनियतरूपस्यैवापरिचयात् । आलोकासंयुक्तचाक्षुषं प्रति तस्य हेतुत्वमित्यपि न वक्तु ं युक्तम्, महदुद्भूतरूपवत्तन्निवेशे गौरवादन्यथा स्फुटदोषात् । अधिकमन्यत्र प्रपञ्चितमस्माभिः इति श्रेयः । I परेण हि चक्षुःसंयोगावच्छेदकावच्छिन्नमहदुद्भूताऽनभिभूतरूपवदालोकसंयोगत्वेन द्रव्यचाक्षुषत्वावच्छिन्नं प्रति कारणता वक्तव्या । सा च न सम्भवति आलोकसंयोगस्याप्यवच्छेदकत्वसम्भवे विनिगमनाविरहात् । एतेन स्वावच्छेदकावच्छिन्नचक्षुः प्रतियोगिकसंयोगसम्बन्धेन तस्य कारणताऽपि प्रत्याख्याता । अथ द्रव्यनिष्टलौकिकविषयितासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति पर्यवसन्त्यास्तस्याः कारणताया अपेक्षया लाघवात् समवायेन तमोभिन्नीयलौकिकविषयतावचाक्षुषं प्रत्या लोकसंयोगस्य स्वावच्छेदकावच्छिन्नसंयोगवच्चक्षुः संयुक्तमनः प्रतियोगिकविजातीसंयोगसम्बन्धेन कारणता कल्प्यते । चक्षुःसंयोगस्य स्वावच्छेदकावच्छिन्ना लोकसंयोगावच्छेदकावच्छिन्नस्ववच्चक्षुः संयुक्तेत्यादिसम्बन्धेन कारणतायां गौरवमेव विनिगमकमिति चेत् ? न, तथापि कारणतावच्छेदकांतर्गत कतिपयभागानां सम्बन्धविधया निवेशाऽनिवेशाभ्यां तद्दोषात्, स्वावच्छेदकावच्छिन्नेत्यादि संबंधेन तत्र तमःसंयोगस्य प्रतिबन्धकत्वकल्पनाया अप्यवकाशाच्च ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182