Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 37
________________ १२] लघुस्याहावरहस्ये __अथैवमपि द्रव्यकर्मरूपाऽर्थक्रियाकारित्वमात्मनः कथमिति चेत् ? निमित्तीभूतभावकर्मकतृत्वेनोपचारादिति गृहाण । एवं घटादिक त्वमप्यात्मनः उपचारादेव बोध्यम् , प्राप्यत्वगर्भकर्मत्वस्य परिणामविशेष एव पर्यवसानात् । न हि क्रियाजन्यफलशालित्वादिकं पराभिमतं कर्मत्वमपि सार्वत्रिकं, घटं जानातीत्यादावेव तदभावात् । एतेनाऽर्थक्रियेत्यत्र प्रथमातत्पुरुषेऽपि क्रमपक्षः प्रत्याख्यातः । युगपत् पक्षे तु प्रत्यक्षबाधः । एकान्ताऽनित्यपक्षऽपि दोषमभिदधाति "एकान्ताऽनित्यपक्षेऽपि" इति-क्रमाक्रमयोरसम्भवप्रतीतिबाधाभ्यामिति भावः ॥४॥ अथैकान्तवादोपकल्पितकर्कशतरतर्कतिमिरनिकरनिराकरणेन प्रकटीभूतप्रतापं भास्वतमनेकान्तवादमभिनन्दन्ति-'यदात्वि'ति यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । थत्याथ भगवन्नव तदा दोषोऽस्ति कश्चन ||५|| ननु परेऽपि पृथिव्यादिन्यपि परमाणुरूपाणि नित्यान्यन्यानि अनित्यानि प्रतिजानत इति को विवादोऽतः प्राहुः 'यथात्थे' ति । भगवान् हि घटादिकमप्येकं वस्तु 'स्यान्नित्यं, 'स्यादनित्यं, स्यानित्यानित्यं, स्यादवक्तव्यं, 'स्यान्नित्यमवक्तव्यं, स्यादनित्यमवक्तव्यं, स्यानित्यश्चाऽनित्यश्चाऽवक्तव्यञ्चेति प्रकाशयति न तथा परे स्वप्नंऽपि संविद्रत इति भावः। इदमिदानीं निरूप्यते । सर्वत्र हि वस्तुनि स्यानित्यत्वादयः सप्त धर्माः प्रत्यक्षं प्रतीयन्ते । तथाहि-घटो द्रव्यत्वेन नित्यः, पर्यायत्वेनानित्यः, क्रमिकविधिनिषेधार्पणासहकारेण स्यानित्याऽनित्योऽपि प्रतीयते । न च समुदिताभ्यां नित्यत्वाऽनित्यत्वाभ्यामेव तन्निर्वाहाद्धर्मान्तरकल्पनं किमर्थकमिति वाच्यं, समुदितयोस्तयोविलक्षणत्वेनैतत्स्थानाऽभिषेचनीयत्वात् । न चात्र प्रत्यक्षे इच्छायाः कथं नियामकत्वं, प्रतीतिबलादेतादृशेच्छाविशिष्टबोधं प्रत्येतादृशेच्छायाः कारणत्वकल्पनात् । युगपदुभयाऽर्पणासहकारेण स्यादवक्तव्योऽपि न तु सर्वथा, अवक्तव्यपदेनाऽप्यवक्तव्यत्वापत्तेः । न चाऽवक्तव्यत्वं शब्दाऽबोध्यत्वरूपं कथं योग्यमिति वाच्यम् , उपदेशसहकारेण पद्मरागादिवत्तद्ग्रहात् । नित्यत्वस्यात्र क उपकार इतिचेदवक्तव्यत्वेन परिणमनमित्येव गहाण । वक्तव्यत्वेन परिणमनं तु नित्यत्वादिविशेषेणैव विश्राम्यतीति न तदतिरेकावकाशः । क्रमाक्रमाभ्यां विध्युभयकल्पनासहकारेण स्यान्नित्यः स्यादवक्तव्यः । ताभ्यां निषेधोभयकल्पनासहकारेण स्यादनित्यः स्यादवक्तव्यश्च । ताभ्यामुभयकल्पनासहकारेण च स्यानित्यः, स्यादनित्यः, स्यादवक्तव्यश्च । अत्रापि समुदायपक्षाऽऽशंका प्राग्वत् समाधातव्या । न च विशेषण-विशेष्यभावे विनिगमनाविरहः, तथाप्येतत्कृतपरिणत्यनतिरेकात् । नित्यानित्यत्वादयो जात्यन्तररूपा इत्यप्याहुः । अत एव अमृनवलम्ब्य सर्वत्र सप्तभंगी संगतिमंगति ।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182