________________
सूक्तिमुक्तावली शिखरिणीछन्दः
न देवं नावं न शुभस्मे मुलं न धर्म नाधम न गुणपरिणद्धं न विगुणं । न कृत्यं नाकृत्यं न हितमाहित नापि निपुणं विलोकन्ते लोका जिनवचनचनुविरहिताः ॥१७॥
व्याख्या-जिनवचनचक्षुविरहिताः जिनवचनमेव चक्षु नेत्रं सेन रहिताः सन्तः लोका जीवाः एतानि वस्तूनि न विलोकन्ते न पश्यन्ति न जानन्ति इत्यर्थः। किं न बिलोकन्ते देवं सर्वझं जितरागादिरियादिलक्षणोपेतं न विलोकन्ते । पुनः शुभगुरु सुगुरु शुद्धप्ररूपकं गुरु न जानन्ति । पुनः कुगुरु पंचाचाररहित मुत्सूत्रप्ररूपकं न जानति। पुनः धर्म अधर्म च न जानेति धर्माधर्मयोरंतरं नविंदसीत्यर्थः । पुनः गुणपरिणखं गुणैः परिपूर्ण गुणवन्तं पुनः विगुणं गुणरहित निर्गुणं च न जानन्ति गुणवन्तं निगुणं च सदृशमेव पश्यति । पुनः कृत्यं करणीयं कर्तुं योग्य वस्तु न जानति । पुनः अकृत्यं कर्तुमनुचितं अयोग्यं न जानन्ति । कृत्याकस्यविधेकं न जानन्तीत्यर्थः। पुननिपुणं सचातुर्य च सम्यक् यथा स्यात्तथा आत्मनो हितं सुखकारण न जानन्ति । पुनः अहितं च अशुभकारणं च न जानन्ति जिनवचनश्रवणं विना शुभाशुभयोरन्तरं न जानन्ति । एवं झात्वा श्रीजिनप्रणीतसिद्धान्तानां श्रवणं कर्तव्यं । कुर्वतां च सता यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादादुत्तरोचरमांगलिक्यमाला विस्तरन्तु ॥ १५ ॥