________________
सूक्तिमुक्तासली अथ गुणसन वयक्ति
~ . शार्दूलविक्रीडित छन्दः धर्म ध्वस्तयो यशश्च्युतनयो विच प्रमत्तः पुमान् । काव्यं निष्प्रतिभस्तपः शमदयाशून्योऽल्पमेधाः श्रुतं ।। वस्त्वालोकमलोचनश्चलमना ध्यानं च बांछत्यसौ । यः संग गुणिनां विमुच्य विमतिः कल्याणमाकांक्षति ।६५
व्याख्या-यो विमतिः निर्बुद्धिः गुणिनां गुणवतो मनुष्याणां संगं संसगं विमुच्य त्यक्त्वा कल्याणं श्रेयः आकांक्षति असो विमतिः पुमान् वस्तदयो गतकूपः निर्दयः सन् धर्म पुण्यं वांछति । पुनश्च्युतनयो गतन्यायोऽन्यायभाक सन् यशः कीर्ति वांछति । पुनः प्रमत्तः प्रमादी सन् विसं धनं वाचति । पुननिष्पतिमः प्रज्ञारहितः सन् काव्यं का वांछति । पुनः शमेन उपशमेन दमेन च दीनो रहितः पुमान् तपोवांति । पुन अल्पमेघा तुच्छबुद्धिबुद्धिरहितः सन् श्रुते शास्त्र पठितुं वांछति । पुनरलोचनो नेत्ररहितः सन् वस्तूनां घटपटादीनां विलोकनं दर्शन वांछति ।। पुनश्चलमनाः चलचित्तः सन् ध्यानं वांछति । तथा गुणवता संगं विना कल्याण न ॥ ६५ ॥
अर्थ-जो अज्ञानी मनुष्य गुणयान् पुरुषों की संगति छोड़कर अपना कल्याण करना चाहता है वह मूर्ख दया बिना धर्म को चाहता है, नीतिमार्ग रहित होकर कीर्ति सम्पादन करना चाहता है, आलसी होकर धन कमाना चाहता है, प्रतिभारहित हो काव्य