Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 463
________________ १४८ सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः यदि वा, यथान्यासमेव एवकारोऽस्तु तदवाय एव अन्यापोहो नान्य इत्यर्थः । कुत एतत् ? इत्यत्राह-कथंचन इत्यादि । कथंचन केनापि स्वयम् उपादानत्वप्रकारेण विकल्पवासनाप्रबोधप्रकारेण वा । अविकल्पकदृष्टेः अविकल्पदर्शनात् स्यात् भवेत् न विकल्पमनो यतः। एतदुक्तं भवति-यदि तदवाय एव अन्यापोहः अयमेव वा तंदवायो न भवेत् किन्तु ५ अन्य एव दर्शनजनितो मानसो विकल्पः; तर्हि तदभाव एव स्यात् इति । तथाहि-यदि तंदृष्टिः [१२४ क] कदाचिद् उपलम्भगोचरचारिणी युक्तमेतत्-'यतो विकल्पमनः' इति, नान्यथा अतिप्रसङ्गात् । न चैवमिति चिन्तितम् । व्यतिरेकमुखेन कारिकां व्याख्यातुमाह-नहि इत्यादि । हि इति यस्मादर्थे । यस्मात् नान्यतोऽविवक्षितात् स्वार्थ स्वम् अर्थश्च (च) अव्यवच्छिन्दत् ततो भिन्नमविषयीकुर्वत् १. प्रत्यक्षं परिच्छिनत्ति विषयीकरोति स्वार्थं नाम किन्तु व्यवच्छिन्ददेव । अनेन स्वार्थावाय एव अन्यापोह इति व्याख्यातम् । नापि स्वार्थ कथञ्चित् सच्चेतननीलादिप्रकारेण अपरिच्छिन्ददेव [व्यवच्छिनत्ति अनेन अन्यापोह एव तैदवाय इति दर्शितम् । कुत एतत् ? इत्यत्राह-सर्वथा इत्यादि । सर्वेण अन्यतो व्यवच्छिन्दता तत्परिच्छिन्नत्य (नत्तीत्य)नेन कथञ्चित् पन (परि) च्छिन्दत् व्यवच्छिनत्ति नाम इत्यनेन वा प्रकारेण अर्थस्वभावासिद्धिप्रसङ्गात् । नहि इत्यादि। १५ एतदपि कुतः ? इत्याह-निर्विकल्प इत्यादि । अन्यव्यवच्छेदविकल्पात् निष्क्रान्तेनं गृहीत स्य अगृहीत] कल्पनया हेतुभूतया विकल्पबुद्धेः अन्यव्यवच्छेदविकल्पस्य निर्विषयत्वाचं । स्वार्थव्यवसायजननात् [निर्विकल्पकमेव अर्थस्वभावग्राहकमिति चेत् ; अत्राह-नच इत्यादि [नच ततो विकल्पसंभवः] ननु माभूत् क्षणिकादिविषयत्ततस्तत्रन्नीलादिविषयं तस्यात् (विषयात्ततः सः नीला२० दिविषयात्तुं स्यात् ) इति चेत् ; अत्राह-ततो वर्ण इत्यादि । ततो निर्विकल्पकदर्शनात् न केवलं क्षणिकत्वादिविकल्पः किन्तु वर्णसंस्थानादिविकल्पोऽपि मा भूत , एकस्य स्वविषये तजनकेतररूपासंभवादिति भावः । [१२४ख] इदमपरं व्याख्यानम्-ततो मानसतज्ज्ञानयोगाद् वर्णन लिङ्गन संस्थानादिविकल्पः तदनुमानमपि मा भूत् , दर्शनमात्रविषयीकृतस्य लिङ्गस्य तदकारणत्वात् । अत्रापि पूर्वो दृष्टान्तः संबंधतै (सम्बध्यते) । तन्न युक्तम्२५ *"ममैवं प्रतिभासो यः न स संस्थानवर्जितः ।" [प्र०वार्तिकाल २।१] 'इत्यादि । ततः किं जातम् ? इत्याह-कथम् इत्यादि । एवम् अनन्तरप्रकारेण सति दोषे कथं न सुप्तायितम् ? अत्रैव दूषणान्तरमाह-कथम् इत्यादि । कथं च अत्यन्तं सर्वात्मना असदृशात्मकं विलक्षणं कारणविषयस्वभावादिना 'वि(निर्वि)कल्पदर्शनम्' इति विभक्तिपरिणामेन (१) स्वार्थावायः। (२) निर्विकल्पकदृष्टिः। (३) स्वार्थावायः। (४) निर्विकल्पेन । (५) विकल्पस्य अवस्तुभूतसामान्यविषयत्वात् । (६) निर्विकल्पात् । (७) निर्विकल्पात् । (4) बिकल्पः ! (९) निर्विकल्पात् । (१०) निर्विकल्पस्य । (११) नीले विकल्पजनकत्वं क्षणिकांशे तदजनकत्वमिति रूपद्वयासम्भवादिति भावः । (२) अनुमानहेतुत्वाभावात् । (१३) “एवमन्यत्र दृष्टत्वात् अनुमान तथा सति।" . इति शेषः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686