Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 576
________________ २६१ ४९] आत्मनः कर्मबन्धः इत्यभिधानात् न बन्धफलभावः [२१३ख] पारमार्थिक इत्येकः । एवमन्येऽपि कुनया वक्तव्याः । तदेव (वं) विप्रतिपत्तिदर्शनात् कथमुच्यते-'किन्तु सर्वेषामविगीतोऽयम्' इति? अत्र प्रतिविधीयते-'पुण्यपापबन्धो जीवानाम् इत्यत्र न कश्चिद् विप्रतिपत्तुमर्हति' इति वदतोऽयमभिप्रायः-सर्वाद्वैतनिषेधात् जीवबहुत्वसिद्धेः 'जीवानाम्' इत्यत्र न कश्चिद् विप्रतिपत्तु. मर्हति । कथं तत्प्रतिषेध इति चेत् ? उक्तमत्र, तथापि उच्यते किञ्चित्-विज्ञानलक्षणस्य अन्यस्य ५ वा अद्वैतस्य अदृष्टस्य कल्पने तथाविधानां परिणामिनामन्यथाभूतानां वा सन्तानान्तराणां' तथाकल्पनायां तस्याः पुरुषाधीनतया अनिवार्यत्वात् कथमद्वैतम् ? दृष्टस्य कल्पने; अन्यतो दर्शने अस्य सिद्धः परमार्थतो ग्राह्याभाव इति कथमद्वैतम् ? इतरथा ग्राह्यभेदवत् न ततस्तत्सिद्धिः । एतेन आगमात् तत्सिद्धिः प्रत्युक्ता । स्वतो दर्शनं वे (चेत् ;) ज्ञाने एतत् प्रतीयताम् । नहि अप्रमाणकं स्वदर्शनमन्यद्वा क्यध्यव (स्वव्यव )स्थाम् अर्हति, अतिप्रसङ्गात् । १० .. अथ मतम्-नीलाद्यात्मकमेव तदद्वैतम् , अन्यस्याप्रतिभासेनासत्त्वात् , नीलादेश्च स्वप्रतिभासात्मकत्वं सुखादिवत् प्रतिभासमानस्य सतोऽन्यग्राहकादर्शनादिति; तन्न युक्तम् ; यतः प्रतिभासवशेन तत्त्वव्यवस्थायां 'नीलमहं वेद्मि, पीतमहं वेद्मि' इति अहमहमिकया ज्ञानस्वरूपवत ततो भिन्नं नीलादिकं प्रतियत् प्रती[यते इति तथैव स्यात् , अन्यथा न कस्यचिद्वेदकमिति स्वग्रहणमिति दूरोत्सारितम् । प्रत्यक्षबाधनमुभयत्र । न चेदमत्र चोद्यम्-'एकस्वभावेन स्वपरयोः १५ ऐक्यम् । अनेकस्वभावेन; अनवस्था, तस्यापि पुनः अन्यस्वभावान्तरेण ग्रहणात् । [२१४क] न च ग्रहणस्वभावस्य ज्ञानस्य अगृहीतः स्वभावः; विरोधात्' इति । कथम् ? यस्माद् एकमेव (मेक) स्वभावमपि स्वपरो (रौ) प्रतियत् प्रतीयते तस्मात् तौ"प्रत्येति । नापि तयोरैक्यं तदप्रतीतेः, इतरथा नीलज्ञानं येन स्वभावेन पीताद्" व्यावर्तते तेनैव रक्ताद् व्यावृत्तौ "तयोरैक्यमिति महती चित्रांद्वैतता ! स्वभावान्तरकल्पने तदवस्था अनवस्था । शेषमत्र चिन्तितम् । भवेत् (भवतु) २० वा तदनेकस्वभावं तद्ग्राहकम्तथापि नानवस्था, तद्वतो ग्रहणेऽपि स्वभावभूताया अपि योग्यतायाः ग्रहणनियमाऽयोगात् । केवलं कार्यदर्शनात् तदात्मिका" अनुमीय[ते] व्यवहारो नेदानीं (वेदानी) प्रवर्त्यते । तद्वतो ग्रहणे तद्ग्रहणेऽपि नानवस्था ; तत्स्वभावात्मकस्य तथैव प्रतिभासनात् । मध्यादिता (भा)गात्मकनीलमन्या (नीलाद्या) कारज्ञानवत् । अस्यानभ्युपगमे कुतस्तदद्वैतमिति कथं जीवनानात्वनिराकरणमप्रमाणकं युक्तम् ? भावे वा तस्य प्रागभावप्रध्वंसाभावाऽनभ्युपगमे न २५ "पुरुषाद्वैताद् भेद इति सुस्थिता चित्राद्वैतता ! "तदभ्युपगमे वा कथं प्रकृतविकल्पद्वयनिवृत्तिः ? तथाहि-येन स्वभावेन प्राक् पश्चाञ्च तदसत् तेनैव स्वकाले सत् , स्वभावान्तरेण वा ? प्रथमपक्षे पूर्वं पश्चाच्च भावः स्वकालेऽपि भावात् , कार्यकारणभावप्रतिषेधो वा पूर्वोत्तरक्षणविशेषयोरेव तद्भावव्यपदेशात् । तदभावस्य विज्ञप्तिमात्रेऽपि उपगमाददोष इति चेत् ; कथमदोषः, यावता (१) आत्मान्तराणाम् । (२) अदृष्ट । (३) कल्पनायाः । (४) अद्वैतस्य । (५) अद्वैतसिद्धिः । (६) स्वदर्शनम् । (७) नीलादेः प्रतिभासास्वीकारे। (८) वेदने । (९) स्वपरयोः। (१०) स्वपरौ । (११) पीतज्ञानात् । (१२) पीतज्ञान-रक्तज्ञानयोः। (१३) योग्यता। (१४) नित्यत्वापत्तिरिति भावः । (१५) प्रागभावप्रध्वंसाभावस्वीकारे । (१६) सद्भावः । (१७) कार्यकारणभाव । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686