Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 626
________________ जल्पलक्षणम् ३११ अत्राह - यद्यपि स्वार्थं साधितवन्तं न निगृह्णाति तर्हि तूष्णींभवन्तं निगृह्णाति इति चेत्; ह - तूष्णींभवन्तम् इत्यादि । अत्रादिमतिप्रायः (अत्रायमभिप्रायः ) तूष्णींभवन्तं किं परः स्वपक्षं साधयन् निगृह्णाति किं वा त्वया साधनाभिधाने अधिकारिणापि न किञ्चिदुक्तम् मौनमेव अनुष्ठितम् इत्यद्धा (इति यद्वा ) स्वार्थसिद्ध्यनुपयोगि ब्रुवन्, स्वयं तूष्णींभवन् वा ? तत्र प्रथमपक्षे उक्तम्- 'पक्षस्थापनया' इत्यादि । द्वितीय आह- तूष्णीं भवन्तम् 'न' ५ [इति] सम्बन्धः । किं कुर्वन् ? ब्रुवन्निति । ब्रुवन् तूष्णींभावम् उद्भावयन्, अन्यद्वा असम्बद्धम् प्रलपन् वा पुरुषः । किंभूतः ? परेण निप्राह्येण सम एव [२५३ख] पूर्व एवकारोऽत्र द्रष्टव्यः । कस्मिन् सति तत्समः ? इत्याह- स्वार्थासाधने इति । यथैव हि तूष्णींभवतः साधनानभिधाने न स्वार्थसिद्धिः तथा तदुद्भावयतोऽपि अन्यद्वा ब्रुवतः । नहि तदुद्भावनमात्रेण स्वार्थसिद्धिः परस्य । शेषमत्र निरूपयिष्यते । तृतीयेऽप्याह- सोध्ये त्याहृदि ( सोऽप्यन्य १० इत्यादि) ब्रुवतोऽन्यः इतरः तूष्णींभूतः सोऽपि तूष्णींभवन्तं न निगृह्णाति । केन कारणेन ? इत्याह- साध्या (स्वाकूतोज्झया) करणभूतया इति । ननु 'वादे निगृह्णाति' इत्युक्तम्, तत् को वादः ? इत्यत्राह - ' - 'समर्थवचनम् ' इत्यादि । ५२ ] [ संमर्थवचनं जल्पं चतुरङ्गं विदुर्बुधाः पक्षनिर्णय पर्यन्तं फलं मार्गप्रभावना || २ || वादिनः तत्त्वप्रतिपादनसामर्थ्यमन्तरेण यथैवोन्मार्गशोधनेन मार्गप्रभावना न संभवति एवं परिषद्बलस्य यथार्हं सत्यदोषनिवेदनसामर्थ्येऽसति । स्वयमेवोद्धृत्य न्यायवादिनमपि व्यापारव्याहाराभ्यां प्रतिक्षिपतां दर्शनात् स्वयमौद्धत्यप्रच्छादनार्थम् । छलजातिनिग्रहस्थानानां भेदो लक्षणं च नेह प्रतन्यते । तैः साधनोपालम्भो जल्प इति कैचिल्लक्षणात् । २० ततश्चतुरङ्ग एव जल्पः वचनस्यापि सांकर्यं तदन्यतरतच्चेतरनिर्णयावसानमेव, न पुनः वक्त्रभिप्रायसूचनम् । साधनदूषण तदाभासव्यवस्थायाः वस्तुतत्त्वप्रतिबन्धात् वक्त्रभि - प्रायसूचनाभिधानस्य सर्वत्राविशेषात् । प्रतिबन्धाभावात् कथं शब्दैः स्वार्थप्रतिपादनमिति चेत् ; ] समर्थवचनं जल्पं विदुः जानीयुः । के ? इत्याह- बुधाः विद्वांसः समन्तभद्र २५ स्वाभिप्रभृतयः । यदि तर्हि तेषां जल्पलक्षणपरिज्ञानं किमिति न्यायान्तरवद् वादन्यायो न निर्दिष्टः; तदनिर्देशे च कुतः तत्परिज्ञानं तेषामवगम्यताम् ? वचनलिङ्गा हि वक्तृचेतोविशेषा असर्वविदामिति चेत्; क एवमाह से तैर्न निर्दिष्टः इति ? यावता - (१) तूष्णींभूतो भवानिति कथनमात्रेण । (२) तुलना - " समर्थ वचनं वादः । प्रकृतार्थप्रत्यायन परं साक्षिसमक्षं जिगीषतोरेकत्र साधनदूषणवचनं वादः । " - प्रमाणसं० पृ० १११ । त० श्लो० पृ० २८० । प्रमेयरत्नमा० ६।४७ | प्रमाणनय० ८।१ । प्रमाणमी० २।१।३० । (३) जल्पपरिज्ञानम् । ( ४ ) समन्तभद्रादीनाम् । (५) जल्पः । Jain Education International १५ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686