Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 654
________________ ५।१३ ] जयपराजयव्यवस्था परित्यज्य चक्षुषी निमील्य समुन्मील्य वा चिन्तय ता [वत् ] तत्तथा साधर्म्य वैधर्म्ययोः सह युगपत् 'यत् सत् तदनित्यं यथा घटः, संश्च शब्दः, यदि (यद) नित्यं न भवति तत् सदपि न भवति यथा आकाशं तथा च शब्दः' इति यद् वचनं तेन समानम् 'यत् सत् तत् सर्वमनित्यम् घटवत् , संश्च शब्दः' इत्यादि साधनवाक्यं [२७५ख] भवेद्वा न वा इत्यादि सर्ववक्तव्यम्। ननु 'अनित्यः शब्दः' इत्यनेन प्रतिज्ञावचनेन 'संश्च शब्दः' इति पक्षधर्मत्ववचनं समानं ५ भाव्यम् , साध्यस्यैव निर्देशात् । यथैव हि विप्रतिपन्नं प्रति शब्दस्य अनित्यत्वं साध्यम् , तथा सत्त्वादिकमपि अन्यथा तद्वचनानर्थक्यं स्यात् । 'अनित्यः शब्दः, कृतकत्वात् , यत् कृतकं तदनित्यं दृष्टं यथा घटः, कृतकश्च शब्दः' इति उपनयवचनेन च। यथैव हि 'शब्दोऽनित्यः कृतकत्वात्' इत्यनेन उक्त एव अर्थः 'कृतकश्च शब्दः' इत्यनेनोच्यते तथा 'यत्कृतकं तदनित्यम्' इत्यनेनोक्तमेव 'कृतकश्च शब्दः' इत्यनेनापि उच्यते । साकल्यव्याप्तिवचनात् शब्दकृतकत्वाभि- १० धानात् सामान्ये विशेषस्य अन्तर्भावात् । अन्यथा शब्दकृतकत्ववत् अन्यस्यापि तेनानभिधानाद् व्याप्तिवचनमनर्थकमापद्यत । ____एतेन तस्मादनित्यः' इत्यनेन निगमनवचनेन तत्समानमिति चिन्तितम् । यथा खलु हेतुसामर्थेन उक्त एव अर्थो निगमनेन अभिधीयते तथा व्याप्तिवाक्येन उक्तः पक्षधर्मत्ववचनेन । ___ तथा साधर्म्यवैधर्म्ययोः सहवचनेन साधनवाक्यं समानम् । यथा वै खलु निश्चितेऽन्वये १५ उक्त व्यतिरेकस्य, अव्यतिरेकान्वय (व्यतिरेके च अन्वय)स्य अर्थापत्त्या गतिः तथा विपक्षसद्भावबाधकप्रमाणबलात् साकल्येन व्याप्तस्य अवगतस्थ हेतोः वचनात् पक्षधर्मत्वं सपक्षे सत्त्वम् अर्थापत्त्या अवगम्यते इति त्रिरूपसाधनवाक्यं क्वोपयुज्यत इति चेत् ; अत्राह-यद(दि) समानम् इति किं प्रतिज्ञादिवचनैरिव (रेव) प्रतिज्ञादिवचनैरेव [२७६क] किम् इति, 'निगृह्येत' इति पदघटना। नहि तद्वचनैः हेतोर्व्याप्तिः खण्ड्यते तत्परिज्ञानं वा यतस्तत्प्रतिबन्धः स्यात् । २० ननु परार्थमनुमानं न हेतुदोपादेव दुष्टम् अपि तु वादिदोषादपि, अस्ति च दोषः प्रतिज्ञादिवचनरहितस्यापि साधनस्य साध्यसिद्धौ यत्सामर्थ्य तदपरिज्ञानम् , अन्यथा न तत्प्रयोगं कुर्यात् । को हि धीमान् अनर्थके ज्ञानं नेव (अनर्थकज्ञानेनैव) आत्मानं क्लेशयति इति चेत् ; अत्राह-साधन इत्यादि । साधनस्य सत्त्वादेः सामर्थ्यस्य परिज्ञानम् उभयत्र प्रतिज्ञादिवचने पक्षधर्मत्वादिवचने च उक्तविधिना समानम् । ततः सत्त्वादिवादीव पक्षधर्मत्वादिवादी २५ च पक्षधर्मत्वादिवाद्यपि निगृह्यत इति मन्यते । किं च, यदि परार्थे अनुमाने साधनसाधा (सामर्था)परिज्ञानं दोषः इति वादी निगृह्यत तर्हि सौगतस्य इदमपरं निग्रहस्थानं स्यादिति दर्शयन्नाह-सत्त्वादेव इत्यादि ।। [सत्त्वादेव क्षणस्थाने उत्पत्त्यादौ निगृह्यते । धर्माधिकोक्तितो वादी तत्सामर्थ्यानभिज्ञया ॥१३॥ (७) हेतोरुपसंहार उपनयः। (२) समान भाव्यमिति सम्बन्धः। (३) प्रतिज्ञाया उपसंहारो निगमनम् । (४) पक्षधर्मत्ववचनम् । (५) प्रतिज्ञादिवचनैः । (६) साधनसामर्थ्य परिज्ञाने। . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686