Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 684
________________ ५।२८ ] जल्पप्रयोजनम् ३६९ कान्तसिद्धेरभावप्रकारेण तत्त्वस्य या अनुपपत्तिः तया अनेकान्तसिद्धिः । अत्र परः पृच्छति सूरिम् 'कथम्' इत्यादिना ? संपृष्ट (सः पृष्ट) आह-तल्लक्षण इत्यादि । तस्य हेतोः लक्षणसिद्धिः अनन्तरं वक्ष्यमाणप्रस्तावः तत्र, अन्यस्य पक्षधर्मत्वादेः अनपेक्षणं वक्ष्यामः इति । ___ तदेवं जल्पस्वरूपं निरूप्य अधुना सदसि तदुपन्यासप्रयोजनं दर्शयन्नाह-स्याद्वादेन इत्यादि । [ स्याद्वादेन समस्तवस्तुविषयेणैकान्तवादेष्वभिध्वस्तेष्वेकमुखीकृता मतिमतां नैयायिकी शेमुषी । तत्त्वार्थाभिनिवेशिनी निरुपमञ्चारित्रमासादय न्त्यद्धाऽनन्तचतुष्टस्य महतो हेतुर्विनिश्चीयते ॥२८॥ ] स्यात् इति निपातः प्रशस्तार्थः । स्याद्वादेन च प्रशस्तजल्पेन । किंभूतेन ? समस्त-१० वस्तुविषयेण समस्तेन संपूर्णेन वस्तुविषयेण ताद्धिकेन (सामस्त्येन) वस्तु विषयो यस्य । किम् ? इत्याह-अभिध्वस्तेषु निराकृतेषु। केषु ? इत्याह-एकान्तवादेषु एकान्तसंबन्धि [२९८ख कथाभेदेषु । बहुवचनात् सकलकथाप्राप्तेः । तेषु सत्सु किम् ? इत्याह-एकमुखीकृता अन्यकथाभ्यो विनिवर्त्य प्रशस्तजल्पनियता कृता च (का ?) इत्याह-सेमुखी (शेमुषी) । किंभूता ? नैयायिकी न्यायनियुक्ता । केषाम् ? इत्याह-मतिमतां प्राज्ञानाम् । सा तथा १५ कुतः ? इत्याह-तत्त्व इत्यादि । तत्त्वार्थाभिनिवेशिन्येव न्याययुक्ता भवति । किं कुर्वाणा ? इत्याह-आसादयन्ती । किम् ? चारित्रम् वादिप्रतिवादिपक्षयोः माध्यस्थ्यम् , अनुपममुपमम् (निरुपमम् अनुपमम् ) द्वाद्भदिति (अद्धा झटिति) हेतुर्लिङ्ग विनिश्चीयते । सकलविप्रतिपत्तिमलविविक्ता(क्त) व्यवस्थाप्यते । कस्य सम्बन्धि ? इत्याह-अनन्तचतुष्टयस्य महत इति । ननु पावकादेरपि हेतुः विनिश्चेतव्यः ; सत्यम् ; तथापि प्रधाने कृतो यत्नः अन्यत्रापि भवति । अत एव उच्यते महत इति । यदि वा प्रस्तोष्यमाणप्रस्तावपातनिकावृत्तमेतत् । अस्य एवं प्रवेशः । हेतुवद् अनुमयज्ञानेऽपि विवादभावात् तदपि विनिश्चीयताम् ; इत्यत्राह-स्याद्वादेन अनेकान्तशासनेन समस्तवस्तुविषयिणा (विषयेण) *"उन्मिषितमपि अनेकान्तमन्तरेण न संभवति" इति २५ वचनाद् एकान्तवादेषु सौगतादिसमयेषु अभिध्वस्तेषु एकमुखीकृता अनेकान्ताभिमुखीकृता शेषं पूर्ववत् । अतः तस्य हेतुरेव विनिश्चीयते नानुमेयज्ञानमिति । ननु हेतुवत् तद्वाक्येऽपि विवादवृत्तेः तदपि परिव भवद्भिरपि किन्न विनिश्चीयते इति चेत् ? न ; अस्य अनन्तरं विचारितत्वात् । अत एव [२९९ क] परार्थानुमानावचनमिति । (1) बौद्धः । (२) जल्पोपन्यास । (३) गौणेऽपि । (४) वृत्तस्य । (५) हेतुवाक्यमपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 682 683 684 685 686