Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 682
________________ ५।२७ ] शब्दस्य अर्थवाचकत्वम् ३६७ ङ्गीकरणं स्वपरासाधारणसंवेदनाङ्गीकरणम् अशक्यनिषेधम् अङ्गीकरणस्य इच्छातोऽविशेषात् । स तथा सति संवेदनाद्वैताय साधनादिव्यवहाराय च दत्तो जलाञ्जलिः तस्य कल्पितसामान्यगोचरत्वादिति । __ अथ मतम्-विकल्पात् तत्प्रतिभासाभावान्न तदङ्गीकरणमिति; तत्राह-प्रतीत्य इत्यादि । विकल्पाऽविकल्पयोः योऽयम् असाधारण (णं) प्रतीत्यभावः तस्य अविशेषात् । एवं सति ५ प्रत्यक्षबुद्धौ असाधारणप्रतीत्यभावे *"यदवभासते तज्ज्ञानम्" [२९७क] इत्यादौ *"यद् यथावभासते" इत्यादौ च धर्मिप्रभृति सर्वमसिद्धम् । तत्र तत्प्रतीत्यभ्युपगमे विकल्पेऽपि स्वपरयोः तथाविधयोः प्रतीतिरिति । (प्रतीतिरस्ति न वेति)। प्रथमे; अनैकान्तिको हेतुः । परत्र; असिद्धः । एकस्य स्वपरयोरिव पूर्वापरयोरपि ग्रहणमविरुद्धमिति । ततः स्थितम्-तत्त्ववित्त्या विना इत्यादि । ननु च सिद्धि (?) "शब्देनाभ्यामनाक्षस्व (नाव्यापृताक्षस्य) बुद्धावप्रतिभासनात् । अर्थस्य तदृष्टाविव तदनिर्दिष्टस्य वेदकम् ॥” इति । तत्कथमुच्यते-'वक्त्यं वाग्गोचरं (वक्ति वागगोचर) हेतुम्' इति 'योग्यः शब्दः [विकल्पो वा] सर्वः सर्वत्र' इति वेति (चेति) चेत् ; अत्राह-नच इत्यादि । १५ नच नैव प्रतिभासभेदमात्रम् । कासाम् ? बुद्धीनाम एकविषयत्वेन विरुद्धम् एकविषयत्वेऽपि तन्मात्रस्य संभवात् , विशिष्टस्तु तद्भदः तेन्न (तेन) विरुद्ध्यते इति मात्रशब्देन दर्शयति । तदेव सदृष्टान्तं दर्शयन्नाह-दूरासन्नादि इत्यादि । [दूरासन्नादिसामग्रीप्रत्यक्षकार्थसंविदाम् । ' प्रतिभासो यथा भिन्नः प्रत्यक्षतरयोस्तथा ॥२४॥ चक्षुरादिज्ञानमेकत्र प्रतिभासभेदमनुभवद् यदीष्यते; प्रत्यक्षादीनां सामग्रीभेदात् प्रतिभासभेदेऽपि एकविषयत्वं कथन स्यात् ? विकल्पस्य अतस्मिंस्तद्ग्रहानिर्विषयत्वं वदन् हतस्त्वम् असाधनाङ्गवचनात् । सम्बन्धस्य एकान्तेन अतत्त्वरूपत्वात् । यथादर्शनं च तत्त्वम् ; अन्यथा तत्त्वानुपपत्या अनेकान्तसिद्धिः । कथम् ? तल्लक्षणसिद्धिरन्यानपेक्षणमनन्तरं वक्ष्यामः।] दूरासन्नशब्दौ भावप्रधानौ, तेन दूरत्वम् आसन्नत्वम् आदिसाम् । आदिशब्देन दूरतरत्वआसन्नतरत्वादिपरिग्रहः, अथवा मन्दलोचनत्वादि[परि] ग्रहः, ता तथोक्तेः (तास्तथोक्ताः) सामग्रयो यामां (यासां) ता अपि तथा ताश्च ताः प्रत्यक्षाश्च पुनरपिता एकार्थ (७) असाधारणसंवेदनप्रतीत्यभावे। (२) प्रत्यक्षबुद्धौ । (३) विकल्पविषयस्य परमार्थत्वसिद्धः । (४) श्लोकोऽयम् अपोहसिद्धौ (पृ. ६) 'यच्छास्त्रम्' इति कृत्वा समुद्धृतः। सन्मति० टी० पृ० २६० । (५) प्रतिभासभेदः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 680 681 682 683 684 685 686