Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 681
________________ ३६६ सिद्धिविनिश्चयटीकायाम् . [५ वादसिद्धिः साध्या [प्रतिबद्धैः] प्राणादिमत्त्वादिभिः यतो [5]साधनैः तत्त्वसाधनं तेन निगृह्येत वादी । यत इति वा आक्षेपे नैव इति । ननु अनुमानानुमेययोरभावात् सन्ति च क्रमात् तस्य हेतुत्वादिप्रभेदविकलस्य भावात् (?) तस्य स्वसंवेदनाध्यक्षतः सिद्धः नायं दोषः इत्यपरः । तंप्रति आह-न च इत्यादि। ५ स्यान्मतम्-एतत् 'प्रतिवन्धादि' इत्यादिना उक्तमिति किमर्थं पुनरुच्यते इति चेत् ? सत्यमुक्तम् , तथापि *"द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । .. लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥" [माध्यमिकका० २४।८] इति वचनात् लोकसंवृतिसत्यापेक्षया तदुक्तम् , प्रतिभासाद्वैतपरमार्थसत्यापेक्षया इद१० मुच्यते-न च नैव प्रत्यक्षबुद्धिः स्वसंवेदनाध्यक्षं स्वलक्षणं स्वस्वरूपं प्रसाधयति संशयादि रहितं व्यवस्थापयति । किं मनागपि न ? इत्याह-यथालक्षणं यत् तस्य परेणं ग्राह्यग्राहकाकारसंवित्तिरहिततया अविभागलक्षणमुच्यते तदनतिक्रमेण । कुतः ? इत्यत्राह-स्थूलस्यैकस्य इत्यादि । तात्पर्यमिदमत्र-नीलादेः शरीरसुखादिनीलादिव्यतिरिक्तस्य ग्राहकस्याभावात् , अव भासमानस्य स्वतः ज्ञानात्मकत्वमिति परः, तस्य स्थूलैकस्य अनेकावयवरूपादिसाधारणस्य १५ केवलं तत्र प्रत्यक्षबुद्धौ प्रतिभासनात् । तस्यान्मथाव भासन्ते (स्यान्मतम्-यद् यथावभासते) तथा तवयं निरंशं भावेऽपि क्रमवद् भासत इति । तदुक्तम् *"मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः:" [प्र० वा० २।३५५] इत्यादि । *"[दूरे] यथा वा मरुषु महानल्पोऽपि भासते।"[प्र०वा०२।३५६] इत्यादि[२९६ख २० *"अविभागोपि" [प्र०वा० २।३५४] इत्यादि चेति । तत्राह-अतद्रूपपरावृत्तवस्तु मात्रं च तस्य स्थूलैकस्य तत्र प्रतिभासनात् । एतदुक्तं भवति-यदा परपरिकल्पि[त] तत्त्वं तदवभासात् पूर्व पश्चाद्वा प्रमाणतः सिद्धं भवति यथा गजादिप्रतिभासात् मूछ (मृच्छक) लादयः तदा तत्तथा प्रतिभासत इति युक्तम् । न चैवम्, आबोधिमार्ग घहारात् (गै व्यवहारात्) तस्यैव प्रतिभासनात् । तथापि तस्यैव प्रतिभासोपगमो (मे) न किञ्चित् स्वरूपेण प्रतिगतं २५ स्यात् , कदाचित्तत्रापि अन्यस्य तथावभासकल्पनादिति । ननु अस्थूलापेक्षया स्थूलम् अनेकापेक्षया च एकः कल्प्यते । न च अपेक्षया पारमार्थिका धर्मा भवन्ति; अतिप्रसङ्गात् । न स्थूलस्यैकस्य प्रत्यक्षबुद्धौ प्रतिभासनम् अपि तु विकल्पे, तत्र ज्ञानपरमाण्वभासनमिति चेत् ; अत्राह-तदसाधारण इत्यादि । तस्य परकीयस्य असाधारणस्य सर्वतो व्यावृत्तस्य संवेदनाभ्युपगमे । किम् ? इत्याह-विकल्पस्यापि न केवलमध्यक्षस्य तद (1) विज्ञानाद्वैतवादिना । (२) नीलादेः । (३) 'भन्यथैवावभासन्ते तद्परहिता अपि' इति शेषः। (४) 'तथैवादर्शनात् तेषामनुपप्लुतचेतसाम्' इति पूर्वार्द्धम् । (५) 'बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसवित्तिभेदवानिव लक्ष्यते।' इति शेषः । (६) प्रत्यक्षे । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 679 680 681 682 683 684 685 686