Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
________________
३६४
सिद्धिविनिश्चयटीकायाम्
[ ५ वादसिद्धिः
शब्दैः परं तत्त्वसाधनं प्रतिपिपादयिषति साधनैः किं पुनस्तत्त्वं न साधयेत् यतस्तेन वादी निगृह्यते । न च प्रत्यक्षबुद्धिः स्वलक्षणं यथालक्षणं प्रसाधयति, स्थूलस्यैकस्य अनेकावयवरूपादिसाधारणस्य अतद्र पपरावृत्तवस्तुमात्रस्य च तत्र प्रतिभासनात् । तदसाधारणस्य संवेदनाभ्युपगमे विकल्पस्यापि तदङ्गीकरणमशक्यनिषेधम् १ तथा ५ सति संवेदनाद्वैताय साधनादिव्यवहाराय च दत्तो जलाञ्जलिः । विकल्पाविकल्पयोः प्रतीत्यभावाविशेषात् । न च प्रतिभासभेदमात्रं बुद्धीनामेकविषयत्वेन विरुद्धम् ।]
"
अस्यायमर्थः-निरंशाः क्षणिका ज्ञानज्ञेयपरमाणवः तथाविधा बहिरर्थशून्या विज्ञान - सन्ततयः सर्वाः सर्वथा भ्रान्ताः सर्वविकल्पातीतं प्रतिभासमात्रं सूकलशून्यतित्वं (न्यात्मकम् ) तत्त्वम् इति दर्शनभेदः तस्य वित्तिः याथात्म्येन ग्रहणं तया विना तामन्तरेण विकल्पानाम् १० अतत्त्वविषयत्वाद् वेत्ति जानाति [ २९४ ख] सौगतः । किम् ? इत्याह-जगत्तत्त्वम् जगतः स्वरूपम् । किंभूतम् ? [क्षण] क्षयम् । उपलक्षणमेतत् [तेन] विज्ञानसन्ततिमात्रम् भ्रान्तिमात्रम् सकलविकल्पविकलप्रतिभासमात्रम् शून्यमात्रम् अनेन परस्य पूर्वापराभ्युपगमविरोधं दर्शयति । तथाहि - यदि जगत्तत्त्वं तथाविधं वेत्ति कथं तत्त्ववित्तिः परमार्थतो नास्ति यतः *" प्रामाण्यं व्यवहारेण" [ प्र० वा० १।६ ] इति ब्रूयात् ? अथ नास्ति ; कथं विद्यात् तदिति ? १५ * ' संप्रति त्वेव व (ष्टेत्) विरोधवत्" इत्यादिना वक्ति कथयति । कम् ? हेतुम् । अन्यथा कुतः परार्थानुमानम् । पूर्वस्यानन्तरमस्य वचनम् जगतः क्षणक्षयप्रतिपत्तिमभ्युपगमयति इदं दूषणमिति प्रतिपादनार्थं नान्यथा । किंभूतम् ? इत्याह- वागगोचरम् वाचो गोचरो यो न भवति तम् इति, स्वयमेव वचनागोचरं हेतुं वदति तत्प्रतिपादनार्थं च वाक्यम् उपन्यस्यति स्ववचनविरोधइति मन्यते ।
ननु व्यवहारेण तत्त्ववित्तिर सि (स्ति) हेतुश्च वाग्गोचरो' न तत्त्वतः इति चेत्; अत्राहसाधयेत् किं न किञ्चित् । कैः ? असाधनैः । परमार्थतः साधनानि यानि न भवन्ति तैः इति, स्वयमसाधनेभ्यो व्यवहारिणा साधनत्वेनोपगतेभ्यः अन्यस्य तत्त्वसिद्धौ सौगतेन उपगतेभ्यो वित्य (अनित्य ) त्वादिभ्यः सुखादौ सांख्यस्य तत्त्वतोऽचेतनत्वसिद्धिः स्यादिति मन्यते । यत्पुनरत्रोक्तम्-*""यादृशो यक्षः तादृशो बलिः यादृशानि साधनानि तादृशमेव २५ तत् साध्यम्” इति ; तदनेन निरस्तम् ; परमार्थसाधनाभावे यादृशतादृशप्रतिपत्तेरयोगादिति । [२९५ क]
कारिकां विवृण्वन्नाह - निर्विषयम् इत्यादि । विषयान्निष्क्रान्तम् निरस्तविषयं वा मिथ्याज्ञानम् अनुमानम् अध्यक्षं च स्थूलैकाकारगोचरं व्यवहारेण प्रमाणीकृत्य स्वयमप्रमाणं प्रमाणयता भ्य (अन्य) तत्त्वं व्यावर्णयितुं व्यवस्थापयितुम् इच्छति सौगतः । न च तदूव्य३० वस्था, मरीचिकाजलज्ञानात् सत्यजलव्यवस्थावदिति मन्यते । स्योदतत् - माभूत् प्रत्यक्षात् " तदा
२०
(१) विज्ञानसन्तत्यादिरूपम् । ( २ ) व्यवहारेण । ( ३ ) अद्वैतेऽपि कथं वृत्तिरिति चोद्यं निराकृतम् । arrafoस्तथा यक्ष इति किं केन संगतम् ॥" - प्र० वार्तिकाल० पृ० २९३ । ( ४ ) स्थूलैकाकारविषयात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686