Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
३६२
सिद्धिविनिश्चयटीकायाम् । [५ वादसिद्धिः तत्राह- नापरम् इति तर्कादन्यदपरम् अध्यक्षादि कृतविचारं न 'शरणम्' इत्यनुवर्त्तते । कुतः स' एव शरणम् ? इत्याह-'सर्व' इत्यादि । प्रकृतं निगमयन्नाह-तत इत्यादि । यत एवं ततः शब्दविकल्पयोः शब्दविकल्पाभ्यां तत्त्वसाधनम् अलयशासनम् प्रचण्डभूपतेर्यदलयं शासनम् आज्ञापनं वा तदिव इति । ५. ननु तर्कविकल्पप्रस्तावे किमर्थमप्रस्तुतशब्दग्रहणमिति चेत् ? उच्यते-'वचनस्यापि' इत्याद्यभिधानादस्यापि प्रस्तावात् ।। ननु तयोरर्थे प्रतिबन्धद्वयस्याभावात् कथं तद्विषयत्वमिति चेत् ? अत्राह-योग्य इत्यादि।
[योग्यः शब्दो विकल्पो वा सर्वः सर्वत्र चेत्स्वतः। मिथ्यात्वं परतस्तस्य चक्षुरादिधियामि ॥२४॥ शब्दानां चेत्स्वतोऽतत्त्वं न प्रयत्नैरपि शक्यते ।
प्रत्यक्षस्य साध्यत्वात् कुतस्तत्त्वव्यवस्थितिः ॥२५॥] योग्यः समर्थः प्रत्यक्षवत् तयोस्तत्र योग्यतासम्बन्धो नान्यः इति तँन्निषेधेऽपि न दोष इति भावः । कः ? इत्याह-शब्दो विकल्पो वा । किं कश्चित् ? न इत्याह-सर्वः ।
कुतः ? स्वतः स्वमाहात्म्यात् । किंच अर्थे किंभूते ? सर्वत्र सर्वस्मिन् । चेत् शब्दः निपात१५ त्वादवधारणार्थः सर्वत्रैव इति । तन्न युक्तम्-*"तयोः' नियमार्थयोग्यतायां धूमादिवत् . पुरुषेच्छावशादर्थान्तरे वृत्तिन स्यात्" इति; तत्रापि तद्योग्यत्वात् । युगपत् ततः सर्वार्थ
प्रतिपत्तिः इति चेत् ; न; एकत्र अपरेण क्षयोपशमस्य "अन्यत्र सङ्केतस्य अनियतस्यापेक्षणात् । स्वयं योग्यस्य [२९३ख] किं तेन ? इत्यपि वार्तम् ; अयोग्यस्य नितरां किं तेन ? न हि सिकताः पीडनमपेक्ष्य तैलोपादानमिति । नन्वेवमर्थाभावे तदप्रवृत्तिः; इत्यत्राह-मिथ्यात्वम् २० इत्यादि । [मिथ्यात्वं] स्वार्थस्यान्यथा विषयीकरणम् 'शब्दस्य विकल्पस्य च' इति विभक्तिपरिणामेन सम्बन्धः । कुतः ? इत्याह-परतः कस्यचित् 'कर्मणः, अन्यस्य मिथ्याज्ञानात् । तदुक्तम्
*"विज्ञानगुणदोषाभ्यां वाग्वृत्तेर्गुणदोषता"।" [प्रमाणसं० २।१६] इति ।
किं स्ये ति कि (किमिव ? इ) त्याह-चक्षुरादिधियाम् [इव] इति । * प्रसर २५ (प्रभास्वर) मिदं चित्तं प्रकृत्या" [प्र. वा० १।२१०] "इति वचनात् "आसां स्वार्थे सतो (स्वतो) योग्यानां परतः तिमिरादेः यथान्वत् (न्यत्वं) तथा [प्र] कृतस्यापि” इति ।
(१) तर्कः (२) परमार्थसद्वस्तु । (३) 'शब्दविकल्पयोः' इत्यत्र शब्दग्रहणम् । (४) शब्दस्यापि । (५) शब्दविकल्पयोः। (६) तादात्म्यतदुत्पत्तिलक्षण । (७) “ययेवं शास्त्रकारेण कथमन्यत्र प्रतिपादितम्-योग्यः शब्दो.."-न्यायवि.वि.द्वि. पृ. ३२१। (6) तादात्म्यदुत्पत्त्यभावेऽपि । (९) शब्द. विकल्पयोः । (१०) विकल्पे । (११) जैनेन । (१२) शब्दे । (१३) शब्दविकल्पयोः । (१४) विकल्पस्य । (१५) ज्ञानावरणकर्मणः । (१६) शब्दस्य । (१७) 'वान्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः ।' इति शेषः । (१८) 'आगन्तवो मलाः । इत्युत्तरार्धम् । (१९) बुद्धीनाम् । (२०) मिथ्यात्वम् । (२१) शब्दस्यापि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686