________________
५।१३ ]
जयपराजयव्यवस्था परित्यज्य चक्षुषी निमील्य समुन्मील्य वा चिन्तय ता [वत् ] तत्तथा साधर्म्य वैधर्म्ययोः सह युगपत् 'यत् सत् तदनित्यं यथा घटः, संश्च शब्दः, यदि (यद) नित्यं न भवति तत् सदपि न भवति यथा आकाशं तथा च शब्दः' इति यद् वचनं तेन समानम् 'यत् सत् तत् सर्वमनित्यम् घटवत् , संश्च शब्दः' इत्यादि साधनवाक्यं [२७५ख] भवेद्वा न वा इत्यादि सर्ववक्तव्यम्।
ननु 'अनित्यः शब्दः' इत्यनेन प्रतिज्ञावचनेन 'संश्च शब्दः' इति पक्षधर्मत्ववचनं समानं ५ भाव्यम् , साध्यस्यैव निर्देशात् । यथैव हि विप्रतिपन्नं प्रति शब्दस्य अनित्यत्वं साध्यम् , तथा सत्त्वादिकमपि अन्यथा तद्वचनानर्थक्यं स्यात् । 'अनित्यः शब्दः, कृतकत्वात् , यत् कृतकं तदनित्यं दृष्टं यथा घटः, कृतकश्च शब्दः' इति उपनयवचनेन च। यथैव हि 'शब्दोऽनित्यः कृतकत्वात्' इत्यनेन उक्त एव अर्थः 'कृतकश्च शब्दः' इत्यनेनोच्यते तथा 'यत्कृतकं तदनित्यम्' इत्यनेनोक्तमेव 'कृतकश्च शब्दः' इत्यनेनापि उच्यते । साकल्यव्याप्तिवचनात् शब्दकृतकत्वाभि- १० धानात् सामान्ये विशेषस्य अन्तर्भावात् । अन्यथा शब्दकृतकत्ववत् अन्यस्यापि तेनानभिधानाद् व्याप्तिवचनमनर्थकमापद्यत ।
____एतेन तस्मादनित्यः' इत्यनेन निगमनवचनेन तत्समानमिति चिन्तितम् । यथा खलु हेतुसामर्थेन उक्त एव अर्थो निगमनेन अभिधीयते तथा व्याप्तिवाक्येन उक्तः पक्षधर्मत्ववचनेन ।
___ तथा साधर्म्यवैधर्म्ययोः सहवचनेन साधनवाक्यं समानम् । यथा वै खलु निश्चितेऽन्वये १५ उक्त व्यतिरेकस्य, अव्यतिरेकान्वय (व्यतिरेके च अन्वय)स्य अर्थापत्त्या गतिः तथा विपक्षसद्भावबाधकप्रमाणबलात् साकल्येन व्याप्तस्य अवगतस्थ हेतोः वचनात् पक्षधर्मत्वं सपक्षे सत्त्वम् अर्थापत्त्या अवगम्यते इति त्रिरूपसाधनवाक्यं क्वोपयुज्यत इति चेत् ; अत्राह-यद(दि) समानम् इति किं प्रतिज्ञादिवचनैरिव (रेव) प्रतिज्ञादिवचनैरेव [२७६क] किम् इति, 'निगृह्येत' इति पदघटना। नहि तद्वचनैः हेतोर्व्याप्तिः खण्ड्यते तत्परिज्ञानं वा यतस्तत्प्रतिबन्धः स्यात् । २०
ननु परार्थमनुमानं न हेतुदोपादेव दुष्टम् अपि तु वादिदोषादपि, अस्ति च दोषः प्रतिज्ञादिवचनरहितस्यापि साधनस्य साध्यसिद्धौ यत्सामर्थ्य तदपरिज्ञानम् , अन्यथा न तत्प्रयोगं कुर्यात् । को हि धीमान् अनर्थके ज्ञानं नेव (अनर्थकज्ञानेनैव) आत्मानं क्लेशयति इति चेत् ; अत्राह-साधन इत्यादि । साधनस्य सत्त्वादेः सामर्थ्यस्य परिज्ञानम् उभयत्र प्रतिज्ञादिवचने पक्षधर्मत्वादिवचने च उक्तविधिना समानम् । ततः सत्त्वादिवादीव पक्षधर्मत्वादिवादी २५ च पक्षधर्मत्वादिवाद्यपि निगृह्यत इति मन्यते ।
किं च, यदि परार्थे अनुमाने साधनसाधा (सामर्था)परिज्ञानं दोषः इति वादी निगृह्यत तर्हि सौगतस्य इदमपरं निग्रहस्थानं स्यादिति दर्शयन्नाह-सत्त्वादेव इत्यादि ।।
[सत्त्वादेव क्षणस्थाने उत्पत्त्यादौ निगृह्यते ।
धर्माधिकोक्तितो वादी तत्सामर्थ्यानभिज्ञया ॥१३॥ (७) हेतोरुपसंहार उपनयः। (२) समान भाव्यमिति सम्बन्धः। (३) प्रतिज्ञाया उपसंहारो निगमनम् । (४) पक्षधर्मत्ववचनम् । (५) प्रतिज्ञादिवचनैः । (६) साधनसामर्थ्य परिज्ञाने। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org