Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
२०
सिद्धिविनिश्चयटीकायाम्
[ ५ वादसिद्धिः
केवलस्यापि भावस्य विनाशसाधनसामर्थ्यात् पुनः उत्पत्तेः कृतकत्वाद्वेति उपाधिविशिष्टोपादानात् निग्रहस्थानम् स्वपरव्यापारापेक्षभावलक्षणत्वात्तेषाम् । न हि येनावश्यं निग्रहस्थानं तेन शिष्या व्युत्पादनीयाः । न हि शुद्धस्यापि साधनत्वे पुनरुपाध्यपेक्षणं युक्तम् ।]
५ सत्त्वाद् विद्यमानत्वाद् भिन्नाभिन्नोपाधिरहितात् इति एवकारार्थ [:] क्षणस्थाने क्वचिद् धर्मिणि क्षणक्षये सिद्धे निश्चिते सति उत्पत्त्यादौ उत्पत्तिः आदिर्यस्य कृतकत्वादेः स तथोक्तः, तस्मिन् ‘प्रयुक्ते' इत्यध्याहारः निगृह्यते 'वादी' इति शेषः ।
ननु उत्पत्तिशब्देन प्रागसतः आत्मलाभलक्षणं सत्त्वमुच्यते, कृतकशब्देनापि तदेता (देवा) पेक्षितपव्यापारभावम्, एवं प्रयत्नानन्तरीयकत्वादावपि वक्तव्यम्, ततो यथा 'अनित्यः शब्दः १० सत्त्वात्' इत्युक्ते न निग्रहः तथा उत्पत्तेः कृतकत्वात् प्रयत्नानन्तरीयकत्वाद् इत्युक्तेऽपि न स युक्तः । न हि शब्दान्तरेण तदेव उच्यमानं निग्रहाय जायते [ २७६ख ] अन्यथा धूमोऽपि तेन उच्यमानो जायेत इति चेत्; अत्राह धर्म इत्यादि । धर्मेण प्रागसत्त्व - परव्यापारादिरूपेण भिन्नाभिन्नविशेषणेन अधिकस्योक्तितः उक्त 'सत्त्वस्य' उत्पत्त्यादिना इति उभयत्र विभक्ति - परिणामेन सम्बन्धः । एतदुक्तं भवति यच्छुद्धसत्त्वं सत्त्वशब्देनोच्यते तदेव उत्पत्त्यादिशब्देन १५ यद्युच्येत न दोषोऽयं स्यात् । तद्वचने च * " सत्त्वं शुद्धाशुद्धभेदेन भिन्नोऽभिन्नविशेषणभेदेन च शिष्यव्युत्पादनार्थं सत्त्वकृतकत्वादिशब्दैः अभिधीयते " इति वते ।
किंच, कृतकत्वादिशब्देषु सङ्केतमात्राश्रयणं न व्युत्पत्तेः कथमेवं सति प्रयत्नानन्तरीयकत्वस्य सपक्षैकदेशव्यापकत्वम्, तस्मिन् वा साध्ये अनित्यत्वस्य अनैकान्तिकत्वं शुद्ध सत्त्वे तद्योगात् ? अनेनं विशिष्टं तदुच्यते नोत्पत्त्यादिना इति किं कृतो विभाग : ?
एतेन अर्थान्तरं नोच्यते इति निरस्तम् ।
ननु भवतु धर्मादि [धि] कस्य सत्त्वस्य अभिधानम् उत्पत्त्यादिना तथापि कथं निगृह्येत इति चेत् ; अत्राह-तद् इत्यादि । तच्छब्देन सत्त्वं परामृश्यते तस्य सामर्थ्यं केवलस्य साधनशक्तिः तस्यानभिज्ञया अपरिज्ञानेन । एवं मन्यसे यदि - शुद्धस्य सत्त्वस्य साधनसामर्थ्यं किं विशेषणननोन्ये ( णेनान्येन ) यत्तदुपादा [ नं] न निग्रहस्थानमिति ।
"अन्ये पुनराहुः- नोत्पत्त्यादेः क्वचित् क्षणिकत्वं साध्यते परमार्थतस्तदभावात्, अपि
तु
२५
३४०
(१) विशेषण । (२) शब्दान्तरेण । (३) सत्वशब्देनैव उत्पत्यादिवचने । ( ४ ) तुलना - "यथा यत् सत् तत् सर्वं क्षणिकं यथा घटादयः, संश्च शब्दः । " - हेतुबि० पृ० ५५ । (५) “उपाधिभेदापेक्षो वा स्वभावः केवलोऽथवा । उच्यते साध्यसिद्ध्यर्थं नाशे कार्यत्वसत्त्ववत् ॥ - प्र० वा० ३।१८५, १८६ । (६) "क्वचित् स्वभावभूतधर्मपरिग्रहद्वारेण यथा तत्रैवोत्पत्तिः । " - प्र० वा० स्व० पृ० ३४९ । ( ७ ) " यत् सत् तत्सर्वमनित्यं यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः । यदुत्पत्तिमतदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः । यत्कृतकं तदनित्यमिति उपाधिभेदेन । एवं प्रत्यय भेदभेदित्वादयो द्रष्टव्याः । " - न्यायबि० ३।११-१३, १५ । “ एतेन प्रत्यय भेदभेदित्वादयो व्याख्याताः । " - प्र० वा० स्ववृ० पृ० ३४८ । (८) सत्वात् प्रयत्नानन्तरीयकत्वादेरभेदे । ( ९ ) प्रयत्नानन्तरीकत्वे । (१०) सत्त्वेन । (११) प्रतिभासाद्वैतवादिनः प्रज्ञाकरादयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686