Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 657
________________ ३४२ सिद्धिविनिश्चयटीकायाम् [ ५ वादसिद्धिः गृह्णीयात् इत्युक्तम् । देशव्यवहितवत् कालव्यवहितस्यापि प्रत्यक्षेण ग्रहणमविरुद्धम् सारूप्यनिषेधात् । न दृष्टान्तासिद्धिरिति चेत् (च)। तन्न प्रत्यक्षतः पक्षधर्मतासिद्धिरस्य । नाप्यनुमानतः; तत्पूर्वकस्य अस्य तदभावे अभावात् । भवतु वा कुतश्चित् तत्सिद्धिः तथापि हेतुसिद्धित एव साध्यसिद्धः अनुमानमनर्थकम् । तथाहि-पूर्वापरविच्छिन्नत्वेन भासने क्षणिकत्वावभासन[म]५ निश्चितस्य हेतुत्वायोगात् । तच्चेन्निश्चितम् ; किमनिश्चितं यदनुमानसाध्यम् ? तद्व-यवहार इति चेत् ; न; अस्य निश्चयात्मकत्वात् । तदिदमायातम्-घटविविक्तभूतलं निश्चिन्वतोऽपि न घटाभावविनिश्चय इति । कथं चैवंवादिनः सविकल्पप्रत्यक्षगृहीते [२७८क] व्यवहाराय मा (अ) नुमानं प्रवर्तेत ? कथं वा भावेषु क्षणिकत्वमनिच्छन्तः तथावभासनमिच्छन्ति ? परमार्थतः भाव धर्मप्रतिपत्तेर्भावप्रतिपत्तिनान्तरीयकत्वात् । क्षणिकभावधर्मश्च तथावभासनम्, अन्यथा *"को १. हि भावधर्ममिच्छन् भावं नेच्छेत्" [प्र. वा० स्ववृ० २।१९३] इत्यादि सुभाषितं ? कथम् ? यथा च क्षणिकत्वमनिच्छन्तो दृश्यन्ते तथा तथावभासनमपि । ततः स्थितम्-हेतुसिद्धावेव सिद्धिः साध्यस्य अनुमानमपार्थकम् निग्रहस्थानम् । एतदेवाह-अधिकोक्तितः हेतुनिश्चयाद् अधिकस्य अनुमानस्य उक्तितो निगृह्यत इति । यदि वा, क्षणिकाः सर्वे भावाः तथावभासनात् , यदि पुनः तथावभासमाना अपि तथा न १५ स्युः नि (नी)रूपता स्यात् संविन्निष्ठत्वात् प्रमेयव्यवस्थितेः इति । एतावतैव चेत् (च) प्रकृतं सिध्येत् नीलादिवद् इत्यने (इति) । न हि पुरुषाद्वैतवादिनं प्रति दृष्टान्तेऽपि परमार्थसाधने उपायान्तरमस्ति अनवस्थापत्तेः । न च तं प्रति क्षणिकत्वं साध्यं विवादाऽविशेषात् । ततोऽधिकस्य दृष्टान्तस्य उक्तः निगृह्यत । यदि वा, अयमेकान्तः-यद् यथावभासते तत् तथैव परमार्थसत् ; तर्हि स्तम्भादयः २० स्थूलैकनानात्वस्वभावतया प्रतिभासमानाः तथैव सन्त इति *"मायामरीचिप्रभृतिप्रतिभास त्वेऽपि (सवदसत्त्वेऽपि) अदोषः" [प्र. वार्तिकाल० ३।२२१] इति प्लवते । अक्रमवत् क्रमेणापि सांशयितैक (सांशान्वितैक) वस्तुसंभवे च कथं प्रतिज्ञाहेत्वोः संभवः ? तत्प्रतिभासनिषेधे च सर्वनिषेधनमिति नानुमानोत्थानं धर्मा (धा) द्यसिद्धः । असमन्त (असन्त)श्चेत् तैरेव हेतुः अनैकान्तिक इति तद्वचनात् निगृह्यत। तदाह-धर्माधिकोक्तितः [२७८ख] २५ धर्मश्चासौ अधिकश्च इति कामचारेण विशेषणविशेष्यत्वमिति अधिकस्य विशेष्यत्वम् । अधिकत्वं पुनः पक्षसपक्षस्यापि धर्मत्वात् निगृह्यत । तथा सत्त्वादेव क्षणस्थानवद् उत्पत्त्यादौ सिद्धे अङ्गीक्रियमाणे सौगतो विरुद्धाव्यभिचारिहेतुवचनात् निगृह्यत । उत्पत्त्यादी इत्यत्र आदिशब्देन स्थितिविनाशयोर्ग्रहणम् । केन हेतुना निगृह्यत ? इत्यत्राह-तत् इत्यादि । तस्य हेतुसाधकस्य प्रमाणस्य साध्ये यत् सामर्थ्यम्, अथवा तस्य हेतोदृष्टान्तरहितस्य यत् तत् , ३० यदि वा स्वहेतोरिव परहेतोरपि, तस्यानभिज्ञया । यद्वा तस्य हेतोरभावेन तत्सामर्थ्यस्य (१) प्रत्यक्षपूर्वकस्य । (२) व्यवहारस्य । (३) क्षणिकाः । (४) तुच्छत्वं स्यात् । (५) उपायान्तरकल्पने । (६) अधिकशब्दस्य । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686