Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 668
________________ ५।१९] जयपराजयव्यवस्था ३५३ समर्थ्यते इत्यत्राह-साधनं यदि समर्थयेत् अनुक्त्वा पक्षवत् । अत्र दोषः किं कुत्सितम् । किम् ? इत्याह-यत् कृतकम् इत्यादि स्पष्टम् । परस्य प्रतिवादिनः साधनम् अप्रत्युच्चार्य । तत्प्रत्युच्चारणं (णे) प्रतिज्ञावचनं अवश्यम्भावीति मन्यते । दूषणसंभवे दूषणोद्भावनं (न)संभवे 'साधनस्य' इति 'विभक्तिपरिणामेन सम्बन्धः । कथम् साधनमयुक्तं युक्त्या (मनुक्तम् अनुक्त्वा) न समर्थ्यते समय॒तैव । कुतः ? इत्याह-तद् इत्यादि । तदिति] निपातः तस्य ५ एतस्यार्थे । तस्य एवंवचनस्य उभयत्र साधनस्य दूषणा (णे) समर्थने वा (चा) विशेषादिति । ततः किं परस्य जातम् ? इत्यत्राह-तदन्यतरोक्तो तयोः साधन-तत्समर्थनयोः अन्यतरस्य साधनस्यैव समर्थनरहितस्य समर्थनस्यैव वा साधनरहितस्य उक्तौ सत्यां यत् परेण निग्रहस्थानम् उक्तम् एकत्र उक्तस्य साधनस्य असमर्थनम् अन्यत्र साधनाङ्गस्य अवचनम् तदयु[क्तम् उभयवचनेऽपि तदविशेषात् इति मन्यते । यदुक्तं परेण-'शब्द[:] प्रमाणान्तरं च इत्यत्र यदि शब्दो लिङ्गं तत एव तर्हि सकलसमीहितसिद्धः [२८६ख] अन्यहेतूपादानात् वादिनो निग्रहस्थानम्' इति; तत्राह-वादिनोऽनेकहेतूक्तौ इत्यादि । [वादिनोऽनेकहेतूक्तौ निगृहीतिः किलेष्यते । नानेकदृषणस्योक्ती वैतण्डिकविनिग्रहः ॥१९॥ साधनस्यैकदोषमुद्भाव्य शेषस्यानुभावनात् प्रतिवादिनः सकृज्जयपराजयौ स्याताम् । अनेकदोषोद्भावने कथमनेकसाधनवादिनमतिशयीत ?] वादिनोजैनादेः निगृहीतिः कैलेत्यरुवा (किलेत्यरुचा) विष्यते सौगतेन । कस्मिन् ? इत्याह-अनेकहेतूक्ती एकत्र साध्ये अनेकस्य ज्ञापकस्य उक्तौ सत्यां प्रकाशितप्रकाशनवत् , एकेन हेतुना गतेऽर्थे अन्यवैफल्यादिति मन्यते परः । तत्रेदं चिन्त्यते-वादिना उभयं कर्त्तव्यं २० स्वपक्षसाधनं परपक्षदूषणमिति सौगतो वादी स्वहेतुमेकमभिधाय परपक्षे अनेकान्ते विरोधवैयधिकरण्यानवस्थाऽभावादिदोषमनेकं वदन निगृह्यते, एकस्मादेवं दोषात् परपराजये अन्यवैफल्यम् । तहि तेन सर्वत्र एकमेव दूषणं वक्तव्यमिति नियमेन कात्स्न्येन परपक्षो दूषितः स्यात् । एवमर्थं च 'किल' इत्युच्यते । अथ 'द्विर्बद्धं सुबद्धम्' इति वचनाद्. अनेकदूषणवच[नेऽपि न] निगृहीति तेरत (तिरिष्यते, अत) एव अनेक[हेतु] वचनेऽपि न स्यात् । एतदेव दर्शयन्नाह- २५ नानेकदूषणस्योक्तौ वादिनो न(नि)गृहीतिः इत्यनुवर्तते । वैतण्डिकस्य न वादवतो विनिग्रहः। यदि वा, 'वादिनः अनेकहेतूक्तौ निगृहीतिः' इति वचनात् प्रतिवादी तदुद्भावने जयवान वक्तव्य इतरथा तैदयोगात् । तत्र च वादिनोऽनेकदोषसंभवः, अनेकस्य वचनं सेन दोषो वचन (चेन्न दोषवचन) परस्य सर्वस्यावचने अनेकहेतुवचनवत् प्रसङ्गः। एतदेव आह-न निगृहीतिः अनेकदूषणस्योक्तौ परस्य । शेषं पूर्ववदिति । ३० (१) षष्ठी । (२) प्रथमविकल्पे । (३) द्वितीयविकल्पे । (४) हेतोः । (५) उद्धृतोऽयम्-न्यायवि० वि० प्र० पृ० ३७६। (६) जैनमते । (७) विरोधाख्यात् । (८) वादिनो निग्रहायोगात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686