Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 671
________________ सिद्धिविनिश्चयटीकायाम् [ ५ वादसिद्धिः " जल्पाको वादी जयति इति चेत् । किं कुर्वन् ? इत्याह- साधयन् । किम् ? इत्याहअर्थं स्वपक्षम् । कथये (कया ? इ) त्याह- अनधिकोक्त्या न विद्यते अधिका (कम् ) उपलक्षणमेतत् तेन न्यूनमपि यस्यां सा तथोक्ता तया इति । तर्हि वादिनो जय एव प्रतिवादिनः पराजय इति कस्यामवस्थायां दोषः स्यात् ? त[दु]द्भावनं वा प्रतिवादिनः पराजयः स्यात् । ५ न तावद् अनधि कोक्त्या अर्थ साधयान् ( साधयेत् ) । अत्रापि इदं चिन्त्यते किं सतोऽपि ( सतामपि ) स्वदोषाणामनुद्भावनात् समीचीनसाधनवचनाद्वा वादी जयति ? तत्र अन्त्ये पक्षे उक्तं जल्पादि विरुध्येत इति, स एव परस्य पराजय इति । प्रथमपक्षेऽपि स एव वादी स्वयं स (स्व) दोषमुद्भाव्य जयति तर्हि 'तस्य पराजय इत्युक्तम् । यदि पुनः प्राश्निकप्रकाशितात् तदनुद्भावनात् ; यथा दोषस्य अनुद्भावनं [ २८८ ख] परस्य पराजयं व्यवस्थापयन्ति १० तथा वादिनोऽपि वचनमिति यत्किञ्चिदेतत् । एतेन सदोषसाधनवचनकालोऽपि निरूपितः । तत् तस्मिन् पक्षे च प्रतिवादिनः परोक्तः पराजयः । एतदेव दर्शयन्नाह - प्रतिवादी निगृह्य ेत किं नैव | कै: ? इत्याह- प्रत्युच्चारणादिभिः । आदिशब्देन दोषोद्भावनादिपरिग्रहः । 1 कारिकार्थं प्रकाशयन्नाह – वादिन इत्यादि । गतार्थमेतत् । कुत एतत् ? इत्यत्राह - साधन इत्यादि । प्रतिवादिनो निग्रहस्थानप्राप्तेः तथा परोक्तप्रकारेण अनुपपत्तेः फल्गुप्रायम् इति १५ साधनप्रत्युच्चारणवद् दोषान्तरोक्तिश्च अनुक्तिश्च प्रभृति येषाम् अदोषोद्भावनादीनां तैः इति वादिजयादेव तन्निग्रहस्थानप्राप्तरिति मन्यते । तैरेव तत्प्राप्तिः नातः इति चेत्; अत्राह - दोषवत्साधनवादिनापि न केवलम् अन्येन पुनः एवं सति निगृह्येत प्रतिवादी इति सम्बन्धः । शेषमत्र चिन्तितम् । ३५६ एतदन्यत्रातिसं (तिदिश) न्नाह - तदेतेन इत्यादि । तद् इत्ययं निपातः तेन इत्यस्य अर्थे २० वर्त्तते । तेन पक्षस्थापनया इत्यादिना एतेन इदानीं चेतसि प्रत्यक्षतया प्रतिभासमानेन । 'एतेन ' इत्युच्यमाने अनन्तरे संप्रतिपत्तिः स्यात्, 'तेन' इत्युच्यमाने चिरव्यवहिते, तस्मात् 'तदेतेन' इत्युच्यते । प्रत्युक्तो निरस्त : [ कथम् ? ] इत्याह- अप्रतिभा इत्यादि । उत्तराप्रति [पत्तिरप्रति] - भा आदिर्येषां निग्रहस्थानानां तानि तथा । तेषां प्रपञ्चः स नेह प्रदर्श्यते ग्रन्थगौरवभयात् कथा त्रय भङ्गाद् अवगन्तव्यः । [ २८९ क] कथं प्रत्युक्त इत्युक्तः ? इत्यादि (६ - ) २५ कस्यचिद् वादिनो [प्रतिवादिनो ] वा विप्रतिपत्तौ अन्यथा व्यवस्थितस्य परमार्गस्य अन्यथा - ग्रहणे अप्रतिपत्तौ तद्ग्रहणाभ्य वेच ( णाभावे च) परस्य प्रतिवादिनो वा स्वपक्षसिद्धिमन्तरेण जयाभावात् कारणात् कः केन निगृह्यते न कश्चित् केनचित् ? जयपराजययोः अन्योऽन्यापेक्षत्वादिति । तदेवं 'वादिप्रतिवादिप्राश्निक' इत्यादिना 'चतुरङ्ग एव' इत्यनेन (इत्यन्तेन ) ३० 'चतुरङ्गं विदुर्बुधाः' इति व्याख्यातम् । 'वचनस्यापि' इत्यादिना ' 'स्वार्थानुमानेऽपि (१) वादिनः । (२) प्राश्निकाः । ( ३ ) निग्रहप्राप्तिः । ( ४ ) न वादिजयात् । ( ५ ) " उत्तरस्याप्रतिपत्तिरप्रतिभा" - न्यायसू०५ | २|१८ । ( ६ ) निग्रहस्थानानाम् । ( ७ ) एतनामकाद् ग्रन्थविशेषात् । (2) पृ० ३११ । (९) पृ० ३११ । (१०) पृ० ३११ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686