Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 669
________________ ३५४ सिद्धिविनिश्चयटीकायाम् [५ वादसिद्धिः ___ कारिकां व्याचष्टे-साधनस्य प्रतिपक्षसाधनस्य वादिना उपन्यस्तस्य च एकदोषमुद्भाव्य शेषस्य [२८७क] सतोऽपि दोषस्य अनुद्भावनात् प्रतिवादिनः सकृज्जयपराजयो स्याताम् । पुनः अनेकदोषोद्भावने कथमनेकसाधनं वा नम (नवादिनम्) अतिशयीत 'प्रतिवादी' इति विभक्तिपरिणामेन सम्बन्धः । प्रतिज्ञादिवचनोपालम्भच्छलेन न्यायवादिनमपि निग्रहणेन संयोज्य आत्मानं मन्यमानं परमुपहसन्नाह-पक्षम् इत्यादि । [पक्षं साधितवन्तं चेद्दोषमुदभावयन्नपि । . वैतण्डिको निगृह्णीयाद वादन्यायो महानयम् ॥२०॥ स्वपक्षस्थापनाहीनोऽपि प्रतिवादी तत्त्वं साधयन्तं सिद्धेरप्रतिबन्धकं दोषं वितण्ड१० योद्भावयन् जयतीति फल्गुप्रायम् , समर्थयोरेव विवादात् कथमन्यतरो वैतण्डिकः संभा व्येत ? न वै तदन्यतरो वैतण्डिकः साधनं प्रत्युचार्य दूषयतः प्रतिवादिनः प्रत्यवस्थानात् , स्वयं कथञ्चिदुत्तरमभिधायेति वा, तथा तयोर्वैतण्डिकत्वे परिपूर्णो वादन्यायः स्यात् !] पक्षम् स्वाभिप्रेतमर्थं साध्याविनाभाविसाधनेन साधयन् न निगृह्णीयात् । अपि शब्दः भिन्नप्रक्रमः वैतण्डिक इत्यस्य अनन्तरं द्रष्टव्यः, वैतण्डिकोऽपि स्वपक्षस्थापना१५ हीनोऽपि *"स प्रतिपक्षस्थापनाहीनो जल्पो वितण्डा।" [न्यायसू०१।२।३] इति वचनात्, प्रतिपक्षो हस्तिप्रतिहस्तिन्यायेन स्वपक्ष उच्यते चेद् यदि तत्र दोषो वादन्यायो महानयम् वादन्यायो न भवति किन्तु वितण्डा स्यात् । प्रतिज्ञादिवचनवत् छलादेरप्यनर्थकस्य निग्रहबुद्ध्या उद्भावनसंभवादिति मन्यते । किं कुर्वन् स तं निगृह्णीयात् ? इत्यत्राह-दोषमुदभावयन्, 'पक्षं साधितवन्तम्' इति वचनात् पक्षसिद्ध्यप्रतिबन्धकमुद्भावयन्निति गम्यते ।। २० कारिकां विवृण्वन्नाह-स्वपक्षस्थापनाहीनो जयति इति फल्गुप्रायम् । कः ? इत्याह प्रतिवादी । कया ? वितण्डया । किं कुर्वन् ? उद्भावयन् । किंभूतं कम् ? इत्याह-सिद्धरप्रतिबन्धकं दोषम् इति । कम् ? इत्याह-तत्त्वं साधयन्तं वैतण्डिकस्य इयमेव गतिः यत् यथाकथञ्चित् जयति इति चेत् ; अत्राह-समर्थयोः इत्यादि । समर्थयोरेव सम्यक्साधनदूषणवचने शक्तयोरेव नाऽसमर्थयोः वादिप्रतिवादिनोः विवादात् [२८७ ख] समर्थस्यासमर्थन (र्थेन) २५ तस्य वा समर्थेन सह विवादासंभवात् प्रचण्डभूपतेरे व (रिव) क्लीबेनेति । कथम् अन्यतरो वादी [प्रतिवादी] वा वैतण्डिकः संभाव्येत तस्य तद्विपरीतत्वात् ।। स्यान्मतम्-वादिना सम्यक्साधने प्रयुक्त प्रतिवादी भूतदोषमपश्यन् यदि प्रतिज्ञादिवचनं सिद्धेरप्रतिबन्धकमपि सन्तं नोद्भावयेत् तस्य ऐकान्तिकः पराजयः स्यात् । तदुद्भावने तु तत्र (१) प्रतिपक्षोऽत्र स्वपक्षः,प्रतिवादिपक्षापेक्षया वादिपक्षस्यापि प्रतिपक्षत्वात् । (२)"उत्तरपक्षवादी वैतण्डिकः प्रथमवादिप्रसाध्यमानपक्षापेक्षया हस्तिप्रतिहस्तिन्यायन प्रतिपक्ष इत्युच्यते तमसावभ्युपगच्छत्येव न तत्र साधनमुपदिशति परपक्षमेवाक्षिपन्नास्ते।"-न्यायम. प्रमे० पृ.१५३ । (३) असमर्थस्य । (४) यथार्थ । (५) प्रतिवादिनः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686