Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 673
________________ सिद्धिविनिश्चयटीकायाम् [ ५ वादसिद्धिः व्यतिरेकिणः' । किं लक्षणा: ? त्रिलक्षणाः । उपलक्षणमेतत् तेन द्विलक्षणग्रहणम् । यदि वा, पक्षधर्मत्वादीनि त्रीणि लक्षणानि येषां ते तथोक्ताः । उपलक्षणमेतत् ततः पक्षधर्मत्वादिव्यादिलक्षणा अपि गृह्यन्ते । त्र्यो हेतवः कारणाकार्य [ कारण कार्य - अकार्यकारण ] सामान्यभेदेन । ३५८ एवं च पूर्ववत् [२९० क] कार्यात् पूर्वं जायमानत्वात् पूर्वं कारणम् अस्य अस्ति ५ इति । शेषवद् इति शेषं कार्यम् अस्ति इति शेषवद् इति । सामान्येन [अ] कार्यकारणत्वे सामान्यतोदृष्टं रसादीनि (दीति ) सूत्रत्रयम् अनुसृतं भवति । एतेन वीतादि व्याख्यातम् । कुतः तदङ्गम् ? इत्याह-तद् इत्यादि । तेषु पक्षधर्मत्वादिषु त्रिषु हेतुषु वा अविनाभावस्य नियमाद् इति । वादाधिकारात् तद्वचनपरिग्रहः । तत्र दूषणमाह-तत्र इत्यादि । [ तत्र ] तस्मिन् पूर्वपक्षे पक्षधर्मत्वं च कार्यत्वं पूर्वत्वं पूर्वत्वं च तदादिर्यस्य तत् तथोक्तं तल्लक्षणं यस्य तदपि १० तथोक्तम् | आदिशब्दः प्रत्येकमभिसम्बध्यते - पक्षधर्मत्वादि, तदस व्याप्तः (तदेशव्याप्तः ) इत्यस्य संग्रहार्थः । कार्यत्वादि, ततः स्वभावत्वादिपरिग्रहः । पूर्ववत्त्वादिः, शेषवत्त्वादेः आदिशब्देन ग्रहणम् । तदसाधनम् अलिङ्गम् । कुतः ? इत्याह- अन्यथा इत्यादि । I ननु भवतु त इ ( ते ई ) हितत्वं तथापि पक्षधर्मत्व- कार्यत्वादिलक्षणं साधनमेव तादात्म्यतदुत्पत्तिप्रतिबन्धादिति चेत्; अत्राह - साध्य इत्यादि । साध्यादभेदात् साध्यशब्देन १५ स्वभावहेतुः उच्यते, ततोऽभेदात् । साधनशब्देन कारणो हेतुः । तयोः तादात्म्यं च साध्यरूपता तदुत्पत्तिश्च साध्याद् आत्मलाभः ते तादात्म्यतदुत्पत्ती कथं न कथंचित् प्रतिपद्येत सौगतः । किं कुर्वन् ? अन्यथा साध्याभावप्रकारेण अनुपपत्तिमघटां हेतोः सतीमसतीं वा अनिश्चिन्वानः । एतदुक्तं भवति - अन्यथानुपपत्त्या तादात्म्यतदुत्पत्ती व्याप्ते । नहि यद् यदभावेऽपि भवति तत् तत्स्वभावं तत्कार्यं वा मनीषिणो मन्यन्ते । ततः तस्या' निश्चयाभावे " तयोः २० [२९० ख] अनिश्चयात् । पूर्वत्वादिकार्यत्वादिलक्षणम् असाधनम् इति निश्चिनोति नाम चेत्; अत्राह - तत्प्रतिपत्तौ तस्या अन्यथानुपपत्तेः प्रतिपत्तौ निश्चये अङ्गीक्रियमाणे याः (?) 2 (१) “त्रिविधमिति अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति । तत्रान्वयव्यतिरेकी विवक्षिततज्जातयोपपत्तौ विपक्षावृत्तिः यथा अनित्यः शब्दः सामान्यविशेषवत्वे सति अस्मदादिबाह्यकरणप्रत्यक्षत्वात् घटवदिति । अन्वयी विवक्षिततज्जातीयवृत्तित्वे सति विपक्षहीनः । यथा सर्वानित्यत्ववादिनाम् अनित्यः शब्दः कृतकत्वादिति । अस्य हि विपक्षो नास्ति । व्यतिरेकी विवक्षितव्यापकत्वे सति सपक्षाभावे सति विपक्षावृत्तिः यथा नेदं जीवच्छरीरं निरात्मकम् अप्राणादिमत्वप्रसङ्गादिति । " - न्यायवा० पृ० ४६ । (२) केवलान्वयिनः विपक्षेऽसत्त्वाभावात् केवलव्यतिरेकिणश्च सपक्षसत्वाभावात् । (३) “पूर्ववदिति यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति वृष्टिरिति । शेषवत् तद् यत्र कार्येण कारणमनुमीयते पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिरिति । सामान्यतोदृष्टं व्रज्यापूर्वकमन्यत्र दृष्टस्य अन्यत्र दर्शनमिति तथा चादित्यस्य ।" - न्यायभा० १।१।५ । (४) सांख्योक्तम् । “तत्र प्रथमं तावत् द्विविधं वीतमवीतं च । अन्वयमुखेन प्रवर्त्तमानं विधायकं वीतम्, व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम् । तत्रावीतं शेषवत् वीतं द्वेधा पूर्ववत् सामान्यतो दृष्टं च ।" - सांख्यत० कौ० का० ५। (५) 'पूर्वत्वम्' इति पुनरुक्तम् । (६) इत्यत्र आदिशब्दः । (७) आदिशब्दात् । (८) इष्टसिद्धिः । (९) अन्यथानुपपत्तेः । ( 10 ) तादात्म्यतदुत्पत्योः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686