Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
५/१५ ]
३४७
अतः साध्ये अस्य अन्तर्व्याप्तिसिद्धिः अस्याश्च साध्यसिद्धिः । ततः साकल्यव्याप्तिः श्रेयसी इति चेत्; अत्राह - साकल्येन इत्यादि ।
जयपराजयव्यवस्था
[साकल्येन कथं व्याप्तिरन्तर्व्याप्त्या विना भवेत् । ।
बहिर्व्याप्तिमात्रं न साधनम्, साकल्यव्याप्तिः साध्यसिद्धिमाक्षिपत्येव, ततः श्रेयान् साध्यनिर्देशः । क्रमशब्दत्व । ततोऽन्तर्व्याप्तिरेव श्रेयसी, तदभावे साकल्येन ५ व्याप्तिसाधने बहिर्ह ष्टान्ताभावात् न कश्चित् हेतुः स्यात् । पक्षकल्पना फलवती । तद्भावहेतुभावयोरवाच्यत्वाद् किं विदुषः प्रति तादात्म्यतदुत्पत्तिप्रदर्शनेन दृष्टान्तेन ? यदुक्तस्या समर्थने साधनस्य निग्रहस्थानं स्यात् । तत्र साधनस्य दोषवत्त्वान्निग्रहस्थानमिति युक्तम् । *" दोषवत्त्वेऽपि यथा वाद्युक्तदोषोद्भावनायां प्रतिवादिनः सामर्थ्यान्निग्रहस्थानम् ।" इति परस्य बालभाषितम् अनवस्थाप्रसङ्गात् । तन्न व्याप्तिवचनं प्रतिज्ञा - १० मतिशेते ।]
साध्यधर्मिणि अत्र (अन्यत्र ) च साध्येन साधनस्य व्याप्तिः साकल्येन व्याप्तिः कथं न कथञ्चिद् भवेत् अन्तर्व्याप्त्या विना तया स्याद् इति यावत् । बहिरिव साध्यधर्मिण्यपि व्याप्तेः र्वाद् (प्तिः सर्वत्र ) इतरथा प्रादेशित्यु (शिकी) व्याप्तिः स्यात् । तयैव भवतु सेति चेत्; तत्प्रतिपत्तौ कथमात्मदोषम् आत्मनि परिहरेत् ? अथ पक्षे सौ न प्रतीयते अपि १५ तु सपक्षे; न तर्हि तत्प्रतिपत्तिः साकल्यव्याप्तिप्रतिपत्तेः अतद्रूपत्वात् । यदि पुनस्तत्र तत्प्रतिपशे[पत्तिर्ने] ष्यते; कथमेवम् अतिप्रसङ्गो न भवेत् ।
कारिकार्धं व्याचष्टे–बहिर्व्याप्तिमात्रम् इत्यादिना । वज्रस्य लोहलेख्यत्वसाधने प्रत्यक्षविरोधात् तन्मात्रं [न] साधनम् । यत्र तु न तद्विरोधः तत्र साधनमेव इति परः; न; तादात्म्यप्रतिबंध्यभ्यवेपि (प्रतिबन्धसद्भावेऽपि ) तद्विरोधसंभवे अन्यत्र कः समाश्वासः ? लक्षणयुक्ते २० बाधासंभवे तल्लक्षणमेव दूषितं स्यात् । तत्प्रतिबन्धभावः पुनः काष्ठादौ य [त ] एव पार्थिवत्वं तत एव लोहलेख्यत्वदर्शनात् । नहि तद्भावे हेत्वंगपेक्षा ( हेत्वन्तरापक्षा) नाम । तत एव तस्य सद्भावे नित्यं तदभाव (तद्भाव ) प्रसङ्गो नाशवत् [ २८२ख ] इति चेत्; न; योग्यताया नित्यविरोधात् । काष्ठादेः पार्थिवस्य लोहलेख्यत्वेऽपि न सर्वस्य र्तंद्भावो विपर्यये बाधकाभावादिति चेत्; तर्हि सकलव्याप्तिः अभ्युपगता स्यात् । तथेति चेत्; अत्राह - साकल्येन व्याप्तिः २५ साध्यसिद्धिम् आक्षिपत्येव, तदभावे तत्प्रतिपत्तेरयोगात् इति मन्यते ।
प्रकृतमुपसंहरन्नाह-तत इत्यादि । यत एवं ततः तस्मात् श्रेयान् साध्यनिर्देशः प्रति
ज्ञावचनम्, अन्यथानुपपन्नत्वोपेतहेतुनिर्देशे तदनिर्देशः प्रशस्यः, ततोऽपि तन्निर्देशों बालबुद्धय
(१) पक्षे सपक्षे च सर्वत्र साध्यसाधनयोः व्याप्तिः सकलव्याप्तिः । ( २ ) व्याप्तिः । ( ३ ) प्रत्यक्षविरोधः । ( ४ ) प्रत्यक्षविरोधसंभवे । (५) तुलना - "लक्षणयुक्त बाधासंभवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः ॥”-प्र० वा० स्ववृ० १।२२ । प्र० वार्तिकाल० ३ । ७१ । (६) लोहलेख्यत्वम् । (७) साकल्यव्याप्तिप्रतिपत्त्यसंभवात् । (८) साध्यानिर्देशः । (९ ) साध्य निर्देशः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686