Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 661
________________ सिद्धिविनिश्चयटीकायाम् [५ वादसिद्धिः ननु न मया सर्व सद् अनित्यत्वेन व्याप्त हेतोः साध्यते किन्तु प्रत्यक्षतः । प्रत्यक्षं हि तद (सद)नित्यमेव प्रतीयते इति चेत् ; अत्राह-अन्तर्व्याप्तौ असिद्धायां 'विवादस्थाने साध्येन साधनस्य व्याप्तिः, तस्यां विपक्षे बाधकबलेन असिद्धायां सत्याम् , दृष्टान्ते व्याप्तिः बहिर्व्याप्तिः असाधनं 'साध्यस्य' इति शेषः। ततोऽन्तर्व्याप्तिसिद्धिमिच्छता साध्यवत्यवत् ५ (वत्येव) परोक्षा सापि हेतोरेव साध्येति भावः । द्वितीयपातनिकायां कारिकाव्याख्यानम्-विनाशी शब्दः इति यत् प्रतिज्ञातम् , तत् प्रसिध्यति । केन ? इत्याह-ध्वनिः इति भावप्रधानोऽयं निर्देशः, इति शब्दस्य अनन्तरं द्रष्टव्यः ध्वनित्वं शब्दत्वम् इति यो हेतुः तेनैव, न हेत्वन्तरेण । [२८१ क] निदर्शनमाह विनाशी इत्यादि । वा शब्दः पूर्वत्र द्रष्टव्यः, इतिशब्दोऽत्रापि योज्यः । ततो यथा भावः १. विनाशी 'भावः' इत्यनेनैव हेतुना प्रसिध्यति तथा प्रकृतमपि इति । नहि भावस्य अनित्यत्वेन व्याप्तिसाधने हेत्वन्तरमस्ति । इदमत्र तात्पर्यम्-'अनित्यः शब्दः' इत्यत्र धर्मिशब्देन अशब्दव्यावृत्तेः उक्तत्वात् पुनः 'शब्दत्वाद्' इति यथा भणितुं न लभ्यते तथा 'सदनित्यम्' इत्यत्र सच्छब्देन असव्यावृत्तः कथनात् 'सत्त्वात्' इत्यपि। १५ ननु 'यत् सत् तत्सर्वम् अनित्यम्' इत्येतेन सर्वस्य असतो व्यावृत्तेः उक्तत्वात् 'संश्च शब्दः' इत्यपि तादृशमेव । अयमपरोऽस्य दोषोऽस्तु । स्यान्मतम्-अदृष्टान्तं शब्दत्वम् असाधनमिति ; अत्राह-'अन्तः' इत्यादि । सुगमम् । कारिकार्थ प्रकटयन्नाह-विपक्ष इत्यादि । विपक्षे हेतोः सद्भावबाधकं यत् प्रमाणं तस्य या व्यावृत्तिः तस्यां सत्यां हेतुसामर्थ्य लिङ्गस्य स्वलिङ्गिज्ञापनशक्तिः । सा कुतः ? २० इत्याह-अन्यथा अन्येन साध्याभावप्रकारेण या अनुपपत्तिः लिङ्गस्य अघटना तस्या एव न पक्षधर्मत्वसपक्षसत्त्वाभ्याम् इति एवकारार्थः, ततो यथा विपक्षे बाधकप्रमाणवृत्त्या हेतुसामर्थ्य दर्शितेऽपि दृष्टान्तादिकमन्तरेण तदप्रतिपन्नवन्तं प्रति दृष्टान्तवचनं तथा प्रतिज्ञावचनमन्तरेणापि तदप्रतिपत्ति ज्ञा (पत्तौ प्रतिज्ञा)वचनमिति मन्यते । द्वितीयमर्थं दर्शयति-तत इत्यादिना । ततो विपक्षबाधकप्रमाणवृत्तिन्यायाद् यथा सत्त्वं २५ शब्दस्य अन्यस्य वा नित्यत्वे सति नोपपद्यते तथैव शब्दत्वम् इति शब्द (सत्त्व)वत् शब्द[त्व] मपि हेतुः [२८१ ख] इति भावः । ननु पक्ष एव साधनस्य साध्येन व्याप्तिः अन्तर्व्याप्तिः, साच *"द्विष्ठसम्बन्धसंवित्तिः" [प्र. वार्तिकाल० १।१] इत्यादि वचनात् साध्ये प्रतिपन्ने प्रतीयेत नान्यथा । तत्प्रतिपत्तिश्च यदि प्रमाणान्तरात् ; अयं वैकल्यम् । [अस्मादेव ;] इति चेत् ; अन्योऽन्यसंश्रयः-सिद्धे (१) पक्षे । (२) वक्तुं न शक्यम् । (१) न वक्तव्यमिति । (४) सौगतस्य । (५) सपक्षसत्वशून्यम् । (६) प्रतिपाद्यम् । (७) साध्यप्रतिपत्तिश्च । (८) अनुमानस्य । (९) अनुमानात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686