Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 664
________________ ५/१६ ] जयपराजयव्यवस्था ३४९ अत्र दूषणमाह-तत्र इत्यादि । तत्र पूर्वपक्षे साधनस्य दोषवत्त्वात् निग्रहस्थानं स्यात् इत्येव युक्तम् सैव निर्दोषता दृष्टान्तेन प्रकाश्यते इति; न; तस्या अन्यथापि प्रकाशनात् इत्युक्तप्रायम् । पूर्वके तु व्याख्याने 'तत्र' इत्यादि दूषणान्तरम् ऊह्यम् । पर आह-दोषवत्त्वेऽपि 'साधनस्य' इत्यनुवर्त्तते । यथा येन प्रकारेण वादिना उक्तो दोषः तेन उद्भावनायां प्रतिवादिनः सामर्थ्यं तस्मात् प्रतिवादिनो निग्रहस्थानं युक्तम् अन्यथा ५ दोषस्य सतोऽप्यप्रकाशनात् प्रतिवादी निगृह्येत । यदि वा 'तथोद्भावनेऽसामर्थ्यात्' इति ग्राह्यम् । एतच्च प्रतिवादिनो निग्रहस्थानम् । इदं व्याख्यानं चिन्त्यम्, दोषबद्वेन ( वत्त्वेन) साधनस्य, वादिनिग्रहाधिकारे अन्यानधिकारात् । अत्राह आचार्यः - इत्येवं भाषितं परस्य बालभाषितम् । कुत: ? इत्याह- अनवस्थाप्रसङ्गात् इति । तथाहि - वादिना दोष इति (वति) साधने प्रयुक्तेऽपि यदा प्राश्निकाः तस्य निग्रहं व्यवस्थापयन्ति प्रतिवादिनः तदुद्भावनमपेक्ष्य, तदा स तम्, अन्यं दो (अन्यं १० वा दोषमुद्भावयेत् न किञ्चिद्वा उद्भावयेत् इति त्रयः पक्षाः । तत्र प्रथमपक्षे यथा प्रयुक् दोषे तत्प्रकाशनापेक्षा तथा [ २८३ख ] तत्र प्रकाशितेऽपि तत्परिहारापेक्षा पुनः तत्समर्थनापेक्षा इत्यनवस्था । यदि पुनः भूतदोषोद्भावनामात्रेण प्रतिवादिनः ते जयं व्यवस्थापयति (न्ति ) ; " वादिनोऽपि तोषप्रयोगमात्रेण पराजयं व्यवस्थापयेयुः अलं 'द्वितीयोपन्यासापेक्षणेन । अथ तावन्मात्रेण पैंरस्य तथोद्भावनासामर्थ्यं न ज्ञायते इति तदुपन्यासापेक्षणम् ; तर्हि तदुपन्यास- १५ मात्रेण इतरस्य तत्परिहारसामर्थ्यमपि न ज्ञायत इति तृतीयोपन्यासापेक्षणं हठादापतति । एतेन उत्तरं विकल्पद्वयं निरूपितम् । प्रकृतमुपसंहरन्नाह–तन्न इत्यादि । यत एवं तत् तस्मात् न 'तत्सर्वम् अनित्यम्' इति व्याप्तिवचनं प्रतिज्ञाम् अतिशेते । 'तद्वचनं प्रतिज्ञैव स्यात् इत्यभिप्रायः । अत्राह परः- यदुक्तम् ‘साकल्येन व्याप्ति साधने नहिदृष्टान्तो भावात्' (बहिर्दृष्टान्ताभावात् ) २० इति ; सारम् (तदसारम् ) विवाद्गोचरस्य भावस्य क्षणिकत्वेन व्याप्तिसाधने अन्यस्य दृष्टान्तभावादिति ; तत्रोत्तरमाह-'न क्षणादूर्ध्वमस्थानम्' इत्यादि । [न क्षणादूर्ध्वमस्थानं तत्प्रत्यक्षात् प्रसिध्यति । उपलब्धिलक्षणप्राप्तं तत्रैकान्ते [च] किं पुनः ॥ १६ ॥ अर्थक्रियायाः कुतो विपक्षाद् व्यावृत्तिः क्षणिकपक्षे प्रत्यक्षतानुपपत्तेः । तन्न २५ आधिक्यदोषमुद्भाव्य परमार्थवादिनं परो विजयते इति घटामुपढौकते ।] परिमाणोत्प्रदन्तर (परमाणोस्तदन्तर " ) व्यतिक्रमकाल [:] क्षणः तत ऊर्ध्वं भावस्य यदव (यद) स्थानं विनाशः तत्प्रत्यक्षणात् (क्षात् ) न प्रसिध्यति । निरूपितं चैतत् *“पश्यन् स्वलक्षणान्येकम्" [सिद्धिवि ० १।९ ] इत्यादिना । एतदुक्तं भवति - यदि क्षणिको (१) निर्दोषतायाः । (२) दोषम् । (३) प्राश्निकाः । (४) प्रतिवाद्युद्भावनापेक्षणेन । (५) प्राश्निकैः सदोषसाधनवादिनः पराजयघोषणेन । (६) प्रतिवादिनः । (७) प्रतिवादिना कृतस्य दोषोद्भावनस्य अपेक्षा । (८) वादिनः । ( ९ ) व्याप्तिवचनम् । (१०) परमाण्वन्तर । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686