Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 663
________________ ३४८ सिद्धिविनिश्चयटीकायाम् [५ वादसिद्धिः नुग्रहार्थत्वात् प्रशस्यत[र] इति श्रेयान् इत्युच्यते । यदि वा, तस्मात् साकल्येन व्याप्तिः तद्गृहीतिः विषयिणि विषयोपचारात् साध्यसिद्धिम् आक्षिपत्येव ततः श्रेयान् साध्यनिर्देशः। ___ एवं मन्यते-साकल्यव्याप्तयाक्षिप्तस्यापि साध्यस्य पुनः हेतोः साधनं तथा प्रतिज्ञावचनेनापि इति शब्दत्वसाधननिर्देशस्य प्रशस्यमसमर्थनाह (स्यत्वमिति समर्थनार्थ) माह-क्रम इत्यादि। ५ नन्वतद् 'विपक्षे' इत्यादिना समर्थितम् किं पुनः समर्थ्यते ? न अस्य अन्यथावतारात् । तथाहि-साकल्येन व्याप्तिः साध्यसिद्धिम आक्षिपत्येव, यदि सकलव्यापकप्रतिपत्तिनान्तरीयका सकलव्याप्यस्य तदविनाभावसम्बन्धप्रतिपत्तिः । न चैवम् ,किन्तु विपक्षे बाधकप्रमाणपूर्विका इति चेत् ; अत्राह-क्रमेत्यादि । सुगमम् । शब्दत्वग्रहणम् उपलक्षणम् तेन श्रावणत्वादिग्रहणम् । ततः किं जातम् ? इत्याह-यत एवं ततोऽन्तर्व्याप्तिः एव न बहिर्व्याप्तिः साकल्यव्याप्तिर्वा श्रेयसी १० इति । [२८२ख] । ___ इतश्च सैव श्रेयसी; इत्याह-तदभावे' विपक्षे बाधकप्रमाणवृत्त्यभावे साकल्येन अनवयवेन सत्त्वादेः अन्यस्य या व्याप्तिसाधने व्याप्तिसिद्धौ क्रियमाणायां बहिर्दृष्टान्ताभावात् न कस्यचित् (कश्चित्) स्वभावः कार्यं वा हेतुः स्यात् । यदुक्तं परेण-*"लक्षणकाले धर्मी प्रयोगकाले धर्मधर्मिसमुदायः व्याप्तिग्रहणकाले साधनधर्मः (साध्यधर्मः) पक्षः।" इति'; १५ तदनेन निरस्तम् ; न हि यावान् कश्चिद् भावः धूमो वा स सर्वोऽपि विनाश-दहनाभ्यां व्याप्तः इति; अत्राह-न्य पक्ष (तत्पक्ष)कल्पना फलवती । ननु साकल्येन व्याप्तिसाधने बहिर्दृष्टान्ताभावात् माभूत् तदन्वेषणम् विपक्षे बाधकवृत्तेः तत्सिद्धेश्च, प्रयोगसमये तु तद्भा (दभा)वादन्वेषणं युक्तमिति; अत्राह-तद्भाव इत्यादि । किं न किञ्चित् 'प्रयोजनम्' इत्याध्याहारः । केन ? इत्याह-दृष्टान्तेन । किंभूतेन ? इत्याह-तादात्म्यतदुत्पत्तिप्रदर्शनेन । कान् प्रति ? इत्याह२० विदुषः प्रति [वि] पक्षे हेतुसद्भावबाधकप्रमाणप्रवृत्तिप्रविजृम्भितहेतुसामर्थ्यपरिज्ञानवतः प्रति । कुतः ? इत्यत्राह-अवाच्यत्वात् । कयोः ? इत्यत्राह-तद्भावहेतुभावयोः इति । अत्रापि 'विदुषः प्रति' इति सम्बन्धनीयम् । एतदुक्तं भवति-'तादात्म्यतदुत्पत्ती दृष्टान्ते न प्रदश्यते (दर्येते) साधनस्य, ते चेदन्यतो ज्ञायते किं तेन ? यदुक्तम् *"तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः। २५ ख्याप्यते विदुषां वाच्यो हेतुरेव हि केवलः॥" [प्र. वा० ३।२७] इति । किंभूतेन दृष्टान्तेन किम् ? इत्यत्राह-यदुक्तस्य येन दृष्टान्तेन असमर्थने । कस्य ? [२८३क] साधनस्य लिङ्गस्य । किंभूतस्य ? उक्तस्य उच्चरितस्य निग्रहस्थानं स्यात् 'तेन दृष्टान्तेन किम्' इति सम्बन्धः । अन्यत एव तत्समर्थनात् इति मन्यते । इदमपरमस्य व्याख्यानं यत् परेणोक्तम्-अविदुषः प्रति दृष्टान्तेनोक्तस्य स्वशब्देन प्रति३० पादितस्य साधनस्यासमर्थने निग्रहस्थानं स्यात् । 'इति' शब्दोऽत्र द्रष्टव्यः । पूर्वपक्षोऽयम् ; (१) अन्तर्व्याप्त्यभावे । (२) "अत्र हेतुलक्षणे निश्चेतन्ये धर्मी अनुमेयः। अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः । ब्यातिनिश्चयकाले तु धर्मोऽनुमेयः इति"-न्यायबि. टी. २८ । (३) तादात्म्यतदुत्पत्ती। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686