________________
३४२ सिद्धिविनिश्चयटीकायाम्
[ ५ वादसिद्धिः गृह्णीयात् इत्युक्तम् । देशव्यवहितवत् कालव्यवहितस्यापि प्रत्यक्षेण ग्रहणमविरुद्धम् सारूप्यनिषेधात् । न दृष्टान्तासिद्धिरिति चेत् (च)। तन्न प्रत्यक्षतः पक्षधर्मतासिद्धिरस्य । नाप्यनुमानतः; तत्पूर्वकस्य अस्य तदभावे अभावात् । भवतु वा कुतश्चित् तत्सिद्धिः तथापि हेतुसिद्धित एव साध्यसिद्धः अनुमानमनर्थकम् । तथाहि-पूर्वापरविच्छिन्नत्वेन भासने क्षणिकत्वावभासन[म]५ निश्चितस्य हेतुत्वायोगात् । तच्चेन्निश्चितम् ; किमनिश्चितं यदनुमानसाध्यम् ? तद्व-यवहार इति
चेत् ; न; अस्य निश्चयात्मकत्वात् । तदिदमायातम्-घटविविक्तभूतलं निश्चिन्वतोऽपि न घटाभावविनिश्चय इति । कथं चैवंवादिनः सविकल्पप्रत्यक्षगृहीते [२७८क] व्यवहाराय मा (अ) नुमानं प्रवर्तेत ? कथं वा भावेषु क्षणिकत्वमनिच्छन्तः तथावभासनमिच्छन्ति ? परमार्थतः भाव
धर्मप्रतिपत्तेर्भावप्रतिपत्तिनान्तरीयकत्वात् । क्षणिकभावधर्मश्च तथावभासनम्, अन्यथा *"को १. हि भावधर्ममिच्छन् भावं नेच्छेत्" [प्र. वा० स्ववृ० २।१९३] इत्यादि सुभाषितं ?
कथम् ? यथा च क्षणिकत्वमनिच्छन्तो दृश्यन्ते तथा तथावभासनमपि । ततः स्थितम्-हेतुसिद्धावेव सिद्धिः साध्यस्य अनुमानमपार्थकम् निग्रहस्थानम् । एतदेवाह-अधिकोक्तितः हेतुनिश्चयाद् अधिकस्य अनुमानस्य उक्तितो निगृह्यत इति ।
यदि वा, क्षणिकाः सर्वे भावाः तथावभासनात् , यदि पुनः तथावभासमाना अपि तथा न १५ स्युः नि (नी)रूपता स्यात् संविन्निष्ठत्वात् प्रमेयव्यवस्थितेः इति । एतावतैव चेत् (च) प्रकृतं सिध्येत् नीलादिवद् इत्यने (इति) । न हि पुरुषाद्वैतवादिनं प्रति दृष्टान्तेऽपि परमार्थसाधने उपायान्तरमस्ति अनवस्थापत्तेः । न च तं प्रति क्षणिकत्वं साध्यं विवादाऽविशेषात् । ततोऽधिकस्य दृष्टान्तस्य उक्तः निगृह्यत ।
यदि वा, अयमेकान्तः-यद् यथावभासते तत् तथैव परमार्थसत् ; तर्हि स्तम्भादयः २० स्थूलैकनानात्वस्वभावतया प्रतिभासमानाः तथैव सन्त इति *"मायामरीचिप्रभृतिप्रतिभास
त्वेऽपि (सवदसत्त्वेऽपि) अदोषः" [प्र. वार्तिकाल० ३।२२१] इति प्लवते । अक्रमवत् क्रमेणापि सांशयितैक (सांशान्वितैक) वस्तुसंभवे च कथं प्रतिज्ञाहेत्वोः संभवः ? तत्प्रतिभासनिषेधे च सर्वनिषेधनमिति नानुमानोत्थानं धर्मा (धा) द्यसिद्धः । असमन्त (असन्त)श्चेत्
तैरेव हेतुः अनैकान्तिक इति तद्वचनात् निगृह्यत। तदाह-धर्माधिकोक्तितः [२७८ख] २५ धर्मश्चासौ अधिकश्च इति कामचारेण विशेषणविशेष्यत्वमिति अधिकस्य विशेष्यत्वम् । अधिकत्वं
पुनः पक्षसपक्षस्यापि धर्मत्वात् निगृह्यत । तथा सत्त्वादेव क्षणस्थानवद् उत्पत्त्यादौ सिद्धे अङ्गीक्रियमाणे सौगतो विरुद्धाव्यभिचारिहेतुवचनात् निगृह्यत । उत्पत्त्यादी इत्यत्र
आदिशब्देन स्थितिविनाशयोर्ग्रहणम् । केन हेतुना निगृह्यत ? इत्यत्राह-तत् इत्यादि । तस्य हेतुसाधकस्य प्रमाणस्य साध्ये यत् सामर्थ्यम्, अथवा तस्य हेतोदृष्टान्तरहितस्य यत् तत् , ३० यदि वा स्वहेतोरिव परहेतोरपि, तस्यानभिज्ञया । यद्वा तस्य हेतोरभावेन तत्सामर्थ्यस्य
(१) प्रत्यक्षपूर्वकस्य । (२) व्यवहारस्य । (३) क्षणिकाः । (४) तुच्छत्वं स्यात् । (५) उपायान्तरकल्पने । (६) अधिकशब्दस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org